2025-01-21 07:35:44 by ambuda-bot
This page has not been fully proofread.
28
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
*'अतः इयं प्रत्यभिज्ञा रूपाद्यतिरिक्तं तदाश्रयभूतं वस्तु प्रकाशयति
इदं रूपस्पर्शवत् इति । * ननु रूपस्पर्शयोर्नियताक्षवेद्यत्वेप्यवस्था-
भेदात्प्रतिसन्धानं स्यात् ; न स्यात् ; न ह्यस्माकमित्र स्थिरमवस्था-
न्तरभाक् किञ्चित्त्वन्मते । विभज्यवैभाषिकपक्षस्तु
आनन्ददायिनी
इदं रूपस्पर्शवादति -यदेव रूपवत् तदेव स्पर्शवादित्यर्थः । ननु रूपादेः
प्रतिनियतेन्द्रियग्रह्यात्वं न स्वरूपेण ; अपितु रूपत्वाद्यवस्थाविशिष्टतया ;
तथाच रूपत्वावशिष्टस्यैव स्पर्शत्वाद्यवस्थस्य त्वगिन्द्रियेण ग्रहसंभवात् न
प्रत्यभिज्ञान्यथानुपपत्त्या तदतिरिक्तधर्मिसिद्धिरिति शङ्कते - नन्विति - इयं
शङ्का भवत्पक्षे (नोदेति)नोपपद्यते इत्याह-न स्यादिति । ननु विभज्यवैभा-
षिकेण–'अत्थिहि भिक्खवे अकदयं ' इत्यागमबलेन नित्यस्यापि तत्व-
स्याङ्गीकारात् कथमवस्थान्तरभाजो. वस्तुनो राहित्यमित्यत्राह - विभज्येति-
अस्तिहि भिक्षोरकृतकं इति तदर्थः । विभज्य - विभागेन नित्यव-
स्त्वङ्गीकारात् विभज्यवैभाषिक इति नाम । वैभाषिकैकदेशीति यावत् ।
भावप्रकाशः
* 1 अतः -- पूर्वोक्तहेतुना ।
- पूर्वोक्तहेतुना । प्रकारान्तरेणाप्यर्थान्तरमाशङ्कय
परिहरति—*± ननु रूपस्पर्शयोरित्यादिना । ३ विभज्यवैभाषिकपक्ष
इति - परमतभङ्गे वैभाषिकभङ्गाधिकारे विभज्यवैभाषिकमते-
*
अस्थि हि भिक्खो अकदयं जइ णत्थि एदस्स जन्तुणो सत्तम् ।
माणससुणावत्था णं संपज्जइ ॥
(अस्ति हि भिक्षोरकृतं यदि नास्यैतस्य जन्तोस्सत्वम् ।
(मानसशून्यावस्था ननु संपद्यते ॥