2025-01-21 07:35:43 by ambuda-bot
This page has not been fully proofread.
सर : ]
द्रव्यसाधनम्
सर्वार्थसिद्धिः
27
*'सेयं न रूपमात्रगोचरा ; तस्य स्पर्शनविषयत्वाभावात् अन्यथाऽ-
न्धस्यापि स्पर्शनेन रूपोपलम्भप्रसंगात् न च स्पर्शमात्रगोचरा;
तस्यापि दृग्विषयत्वाभावात् । तथात्वे चास्पृशतोऽपि दृशा स्पर्शधी-
प्रसंगात् । न चोभयविषया; दर्शनस्पर्शनयोः प्रत्येकविषयत्वादेव ।
आनन्ददायिनी
रूपस्पर्शैक्यबोधनेनैव
तस्याश्चरितार्थत्वात् इत्यन्यथासिद्धिमाशङ्कय
परिहरति-सेयं इत्यादिना । न रूपमात्रगोचरा - न रूपमात्रैक्यविषयिणी ।
दर्शनस्पर्शनयोरिति—–चक्षुरिन्द्रियत्वगिन्द्रिययोः । एकैकमात्रविषयत्वेन
कस्यापीन्द्रियस्योभयग्राहकत्वं न संभवति । न च मिळितं गृह्णाति ;
पूर्वापरकालव्यापारत्वेन युगपद्व्यापाराभावात् । भावेऽप्येकस्योभयगो-
चरत्वाभावेन वायौ स्पर्शं घटे रूपं च गृह्णतोः दर्शनस्पर्शनयोरिव प्रत्य-
भिज्ञापकत्वायोगादिति भावः ।
भावप्रकाशः
सति किञ्चिद्विषयकप्रमात्वात् इति परिशेषतस्साधयिष्यन् विशेषणद्वया-
सिद्धिं पारहरति—–*— सेयमित्यादिना । तस्य - रूपमात्रविषयकचाक्षुषस्य ।
स्पर्शनविषयत्वाभावात्-स्पर्शनविषयविषयकत्वाभावादित्यर्थः । न रूप-
मात्र गोचरेत्यत्र हेतुस्तु स्पर्शनविषयविषयकत्वमेव । एवमेव न स्पर्श -
मात्रगोचरेत्यत्राप्यूह्यम् ।
उभयविषयविषयकत्वसिद्धया (जगदीशमतेन) अर्थान्तरं शङ्कते -
* नचेति ।
* दर्शनस्पर्शनयोः-चाक्षुषत्वाचप्रत्यक्षयोः। दृष्टमेव स्पृशामीत्यस्य त्व-
गिन्द्रियेण स्पृष्टमेव पश्यामीत्यस्य चक्षुारीन्द्रियेण जननादाद्ये रूपस्य द्वितीये
स्पर्शस्य च मानस्य बौद्धमतेऽप्यनङ्गीकारेण नार्थान्तरावकाश इति भावः ।