This page has not been fully proofread.

26
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्का कलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
सा तावन्न संशयात्मा, विरुद्धानियत कोट्यनवलम्वात् । न च
विपर्ययः,*' स्वारसिकवाधादृष्टेः *' अनन्यथासिद्धेश्च । तदेतदुभयं
दृढतरेति संगृहीतं । ग्रहणमिति वक्तव्ये प्रत्यभिज्ञेत्युक्तिर्ज्ञा-
तृज्ञेयस्थैर्यस्यापि व्यक्त्यर्था ।
 
आनन्ददायिनी
 
मुपन्यस्यति – अस्तिहीति ।
 
प्रामाण्यानन्यथासिद्धिं दर्शयति-
सा तावदिति । ग्रहणमिति वक्तव्ये इत्ति—उभयेन्द्रियजन्यैक-
विषयज्ञानमात्रेणापि धर्मिसिद्धिसंभवात् प्रत्यभिज्ञाग्रहणस्य प्रयोजनं
वक्तव्यमित्यर्थः । पूर्वं स्पृष्टवत इदानीं पश्यतश्चैक्यात् ज्ञातृस्थैर्यं ;
पूर्वं स्पृष्टस्येदानीं दृश्यस्य चैक्यात् ज्ञेयस्थैर्यमिति बोध्यम् । नन्वेवमपि
प्रत्यभिज्ञया रूपाद्यतिरिक्तं द्रव्यं साधयितुं न शक्यते ;
 
भावप्रकाशः
 
एकार्थपदार्थेऽन्वयः इति सूचितं । सिद्धान्ते इयं
! सिद्धान्ते इयं च गौरिति
सविकल्पकवत् इदमपि संस्कारसहकृतेन्द्रियजन्यमेव ज्ञानं प्रमा-
त्मकं । तत्र दर्शनस्य संस्कारवलात् स्पर्शनस्य तदाश्रयस्य च स्वयं-
प्रकाशतया विषयस्थेन्द्रियसन्निकर्षेण भानमिति बोध्यम् ।
 
तत्प्र-
 
*' स्वारसिकबाधादृष्टोरिति - अबाधितत्वादिति यावत् ।
योजकमपि हेतुमाह-* े अनन्यथासिद्धेश्चेति । प्रत्यभिज्ञायाः रूपाद्यति-
रिक्ततदाश्रयविषयकत्वे विवदमानं प्रति दृष्टमेव स्पृशामीति प्रत्यभिज्ञा
रूपस्पर्शातिरिक्तविषयिणी रूपमात्राविषयकत्वे सति स्पर्शमात्राविषयकत्वे