This page has not been fully proofread.

सरः ]
 
द्रव्यसाधनम्
 
सर्वार्थसिद्धिः
 
25
 
"वैभाषिका :- " निराधारा निर्धर्मकाश्च रूपादयश्चत्वारः पदार्थाः ।
ते चक्षुराधेकै केन्द्रियग्राह्याः " इति .
 
*' वात्सीपुत्रास्तु शब्दादीन् पश्च वैभाषिका विदुः ।
शब्दात्मानश्चतुष्व केचिदित्यपरेऽब्रुवन् ॥
 
तत्र निराधारत्वं तावत्प्रतिसन्धानविशेषेण निरस्यति । अस्ति
हि दृष्टमेव स्पृशामीति * हीन्द्रियग्राह्यवस्तुविषया धीः ।
. आनन्ददायिनी
 
- तत्वसा (ग) रादिग्रन्थ इति शेषः । निराधारा इति धर्मपक्षः । निर्द्धर्मका
इतेि धर्मिपक्षः। केचित्तु-रूपादय इत्युक्तया धर्मपक्ष एव । धर्मिपक्षस्तु-
अत्थि रूआइएण एअं घयत्ति अक्खभेआदो ।
 
इत्यादिभिरुक्त उपलक्ष्य इत्याहुः ।
 
अस्ति रूपादिकेन एकं गृह्यते अक्षभेदात् । इति तदर्थः ।
वत्सी वैभाषिकमाता। वत्सीपुत्र ( छात्राः ) संबन्धिनो वासीपुत्राः ।
निराधारत्वं तावदिति --- निर्द्धर्मकत्वं धर्मेोनिर्धर्मकश्चेत्' इत्युत्तरत्र
निसिष्यते। अनन्यथासिद्ध (प्रमाणभूत) प्रतीतेरेवार्थसाधकत्वात् ता-
 
भावप्रकाशः
 
-
 
*' वात्सीपुत्रास्त्विति — एत एव नित्यात्मतत्ववादिनः इति
तत्वसंग्रहव्याख्यायां पञ्चिकायां ३३६ तमश्लोके स्फुटम् ।
 
*" द्वीन्द्रियग्राह्यवस्तुविषयेति - एतेन मूले दर्शनस्पर्शनाभ्या-
मित्यत्र विषयतारूपं वैशिष्ट्यं तृतीयार्थः ; तस्य एकार्थप्रत्यभिज्ञेत्यत्र