2025-01-21 07:35:43 by ambuda-bot
This page has not been fully proofread.
•
24
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
रूपादेराश्रयाभावात् । रूपादितया विकल्प्यमानस्यैकस्यैव वा
सत्त्वादिति पक्षद्वयमेकेनैव प्रतिक्षिपति -- एकार्थेति । एवमाहु-
आनन्ददायिनी
वात्सपुत्राः अन्ये च । तत्र वात्सीपुत्राः – रूपरसगन्धस्पर्शशब्दपञ्चक-
व्यतिरेकेण धर्मी नास्ति । ते च चक्षुराद्येकै केन्द्रियग्राह्याः । त एव
समुदिताः पृथिवीत्वेन एकैकहासेन जलादित्वेन व्यवह्नियन्त इति
वदन्ति । अन्ये वैभाषिकाः शब्दस्तावन्न तत्वान्तरं । अपि तु
रूपादिष्वेव केचन शब्दात्मानः इति वदन्ति । अपरे वैभाषिका :
सौत्रान्तिकैकदेशिनश्च एकस्य रूपादेः शब्दात्मकत्वे श्रोत्रग्राह्यत्वं
चक्षुर्ग्राह्यत्वं चेति ग्राहकभेदाधीनभेदव्यवहार आवश्यकः । नच
केचन रूपादयः श्रोत्रग्राह्याः शब्दात्मानः ; तथा सति सर्वेषां
रूपाद्यन्यतमत्वप्रसङ्गेन चत्वार इत्यस्याभावप्रङ्गात् । नच पञ्चा-
प्यङ्गीकार्याः । तथा सत्यपि ग्राहकभेदं विना निर्वाहासंभवात्तदा-
वश्यकत्वे दर्पणकृपाणादिव्यञ्जकभेदाद्यथा मुखं नीलत्वदीर्घत्वारोपव-
द्भासते तथा धमर्येव रूपरसादिरूपेण भासते इति धर्मा न सन्ति धर्म्येक
एवेत्याहुः ॥ सौत्रान्तिकमते धर्मिणोऽनुमेयत्वंऽपि इन्द्रियजन्यवृत्तौ
तदाकारार्पणात् ग्राहकभेदेन तद्भेद इत्यवगन्तव्यम् । 'योगाचारस्य
तु बुद्धिव्यतिरेकेण किमपि नास्तीति मतं । माध्यमिकस्य तु सर्वं शून्य-
मिति मतम् ॥ तत्र वैभाषिकसौत्रान्तिकमतद्वयमनुवदति-रूपादेरिति ।
निराधाराः धर्मा इत्यर्थः । रूपादितयेति धर्म्येक एवेति पक्षः ।
रूपत्वेन रसत्वेन च विकल्प्यमानस्य गृह्यमाणस्येत्यर्थः । एवमाहुरिति
1 योगाचारमाध्यामिकमतयोरनुवादः क. ख. पुस्तकयोर्न दृश्यत ।