2025-01-21 07:35:42 by ambuda-bot
This page has not been fully proofread.
22
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव
ज्ञातु-
ज्ञेयावभासो मतिरिति कथितं संग्रहाद्द्रव्यलक्ष्म॥७
सर्वार्थसिद्धिः
त्रिगुणसमधिका त्रिगुणद्रव्यादन्या । सत्वयुक्ता सत्वाख्यगु-
णविशेषवती । त्रिगुणान्यत्वं कालादेरप्यस्तीति तद्द्व्यवच्छे-
दोऽनेन कृतः । एतावन्मात्रेण त्रिगुणसाधर्म्यमित्यभिप्रायेण
तथैवेत्युक्तं ; रजस्तमस्समानाधिकरणसत्वस्यापि तत्र सत्वात् ।
'निर्मलत्वात्मकाशकं' इत्यादि समानमिति वा । ज्ञातुर्ज्ञेयावभासो
मतिः - अहमिदं जानामीत्यहमर्थाश्रयतया * सिध्यन् सकर्मकः
प्रकाशो मतिरित्यर्थः । तादृशात्रस्थयापि तद्विशिष्टं गृह्यते ।
द्रव्यलक्ष्म सामान्यतो विशेषतश्चेति शेषः ॥ ७ ॥
इति द्रव्यादीनां लक्षणानि.
आनन्ददायिनी
गतीनां' इत्यादौ उपासनार्थमैौपाधिकाणुत्वादिकमुक्तमिति भावः ।
अहमर्थाश्रयतया इति - सकर्मकः प्रकाशो मतिरिति लक्षणं । तदर्थस्तु -
स्वव्यतिरिक्तप्रकाशनियततत्कत्वं । नचात्मादौ स्वव्यतिरिक्तप्रत्यक्ता-
दिप्रकाशकत्वादतिव्याप्तिः ; आत्मवदेव तस्यापि स्वेनैव प्रकाशात् ।
अत एव शतदूषण्यां तेषां धर्माणां ज्ञानदृष्टान्तेन स्वप्रकाशतोक्तिः ॥ ७॥
इति द्रव्यादीनां लक्षणानि .
1
भावप्रकाशः
*' तत्र - त्रिगुणे* सिध्यन्निति - एतेन मूले ज्ञातुरिति न लक्ष-
णान्तः पाति ; किंतु धर्मिव्यतिरिक्तधर्मभूतज्ञानसद्भावे प्रमाणसद्भावबो-
धनार्थम् । लक्षणं तु स्वभिन्नविषयसंयुक्तत्वमेवेति द्योत्यते ॥