This page has not been fully proofread.

सरः]
 
द्रव्यादिलक्षणानि
 
तत्वमुक्ताकलापः
 
21
 
प्रकृतिरिह गुणैस्तत्त्व पूर्वैरुपेता कालोऽब्दाद्याकृति-
स्स्यादणुरव गतिमान् जीव ईशोऽन्य आत्मा । संप्रोक्ता
सर्वार्थसिद्धिः
 
त्रिगुणस्य रजस्तमसी पृथग्लक्षणे ; सत्वं तु बन्धकत्वेन विशेषितं ।
कालोब्दाद्याकृतिरिति उपाधिकृतविभागैरन्दादिव्यवहारविषय
इत्यर्थः । तत्तत्परिणामवान् काल इति पक्षोऽपि वक्ष्यते । ईश्वरात्
अचेतनादणोश्च व्यवच्छेदाय अणुरवगतिमानित्युक्तं । इशोन्य
आत्मा अणुव्यतिरिक्त वेतन इत्यर्थः । जीवे विभुत्वोक्तिः ईश्वरे अणु-
त्वोक्तिश्च अन्यपरेति सूत्राद्युक्तं । संप्रोक्ता तत्परैश्शास्त्रैरिति शेषः ।
आनन्ददायिनी .
 

 
सत्वस्य ; शुद्धसत्वेऽतिव्याप्तेः । किञ्च सत्वपूर्वैरिति बहुवचनानुपपत्तिः
अन्यपदार्थबहुत्वाभावात् इति चेत्; तत्राह -- त्रिगुणस्येत्यादिना ।
'सर्वादीनि सर्वनामानि ' इत्यत्रेव सत्वस्याप्यन्यपदार्थान्तर्भावान्न बहुव-
चनानुपपत्तिरिति भावः । कालस्य विकाराभावपक्ष आह -- उपाधीति ।
आकृतिशब्दस्य 'हूतिराकारणाह्वाने' इत्यादौ व्यवहारे आङ्पूर्वस्य
कृञोऽनुशासनाद्व्यवहारार्थत्वं वक्तुं युक्तं : व्यवहारविषयत्वमब्दत्वा-
द्युपाधेरप्यस्तीत्याह — तत्तदिति । ईश्वरादिति —– अणुत्वेनेश्वरव्यावृत्तिः ।
अवगतिमानित्यचेतनव्यावृत्तिः । लक्ष्म्या ईश्वरकोटित्वान्नाव्याप्तिः । अन्य
इत्यस्य जीवलक्षणलक्षितादन्यत्वोक्तौ तदन्तर्गतावगतिमद्विशेषणवैयर्थ्य-
मित्याह- अणुव्यतिरिक्तश्चेतन इति । जीवे इति - · अणोरणीयान्
महतो महीयान् ' ' स चानन्त्याय कल्पते' इत्यादेः ; । ' हृद्यपेक्षया तु
मनुष्याधिकारत्वात् ' ' निचाय्यत्वादेवं व्योमवच्च ' ' उत्क्रान्तिगत्या-
 
-