This page has not been fully proofread.

vii
 
१. श्री गीतार्थसंग्रहः, २. आगमप्रामाण्यं, ३. आत्मसिद्धिः,
४. ईश्वरसिद्धिः, ५. संवित्सिद्धिः ६. महापुरुषनिर्णयः, ७.
स्तोत्ररत्नम्. ८. श्रीस्तुतिः — श्रीभाप्यकृतां परमाचार्यस्य श्रीमतो
यामुनमुनेः कृतयः ॥
 
श्रीभाष्यादिनवग्रन्थी च श्रीमतां रामानुजाचार्याणाम् ॥
 
त्रींश्च गुरूनेतान् विशिष्टाद्वैत संप्रदायप्रतिष्ठापका इति तत्तत्कृतं
प्रतिष्ठापनाकारं प्रदर्य-
 
नाथेोपज्ञं प्रवृत्तं बहुभिरुपचितं यामुनेयप्रबन्धैः
 
त्रात्रं सम्यग्यतीन्द्रैरिदमखिलतमः कर्शनं दर्शनं नः ॥
इत्यभिष्टुवन्त्याचार्याः ॥
 
श्रीभगवद्विषयम् —— श्रीकुरुकेश्वराणां कृतिः ।
 
- -
 
श्रीभाष्यविवरणम्, षडर्थसंक्षेपः, गुरुगुणावली, तत्वसंग्रहः इत्ये-
वमादयः षोडशप्रबन्धाः श्रीभाष्यकृतां प्रियशिष्यस्य प्रबन्धतोऽपि
मन्त्रार्थसंप्रदायप्रवर्तकस्य श्रीमतः श्रीराम मिश्र महादेशिकस्य कृतयः ।
यस्य च भगवद्रामानुजाचार्यशिष्यभावमजानद्भिः न्यायपरिशुद्धेरुपो-
द्धातलेखकैः श्रीमद्भिः शतावधानं श्रीनिवासाचार्यैः कुलपरम्परयैव
श्रीराम मिश्र महादेशिकस्य श्रीभाष्यकारशिष्यत्वं तदीयनिखिलसंप्रदाय -
प्रवर्तकतां च
 
इति ॥
 
आद्या श्रीभाष्यविवृतिः यतिराजनियोगतः ।
येनाकारि सुगूढार्था राममिश्रं नमामि तम् ॥
 
व्यापकत्रयसारार्थषट्कं येन प्रबन्धतः ।
प्राकाश गुरवे तस्मै राममिश्राय मङ्गलम् ॥
 
इति चानुदिन मनु संदधत्सु सत्स्वपि महात्मसु केवलया स्वमनीषिकया
कमपि क्रमं परिकल्पयद्भिः निगमान्तगुरुवचोभिरेव पारस्फुटामपि यत्प्र-