This page has not been fully proofread.

सर: ]
 
द्रव्यादिलक्षणानि
 
सर्वार्थसिद्धिः
 
19
 
ईश्वरादावपि मूर्तसंयोगा * ' आगन्तुकास्सन्ति ।
आनन्ददायिनी
 
ननु ज्ञाततावादिमते पुनरप्यतिव्याप्तिः ; एकदेशिभिः शब्दादा-
वपि संख्याङ्गीकाराच्छक्तयङ्गीकाराच्चातिव्याप्तिः । न च गुणादौ शक्तय-
भावः; कारणत्वानुरोधेन तदावश्यकत्वादिति चेदुच्यते-अगन्तुकधर्मव-
त्त्वमित्यर्थः । ज्ञाततातिरिक्तधर्म्यनन्तरकालीनोत्पत्तिकधर्मत्वमागन्तुकत्वं
विवक्षितं । यद्यपि द्वित्वरूपा संख्या तादृशी ; तथाऽपि सा सिद्धान्ते
नास्त्येव ! एकत्वं तु धर्मिणा सहैवोत्पद्यते इति धर्म्यनन्तरका-
लीनोत्पत्तिर्नास्त्येव । तथा शक्तिरपि सहजा : आधेया तु गुणे न ;
मानाभावात् । सहजाऽपि प्रतिबन्धे गुणादौ न विद्यते तदपगमे
धर्म्यनन्तरमुत्पद्यते इति तथेति शङ्का गुणस्यैवापगमोत्पत्तिभ्यां परिहार्या ।
यद्यपि-यादृशादेव करतलानलसंयोगाद्दाहः तादृशादेव मणिसमवधाने
न दाह इति शक्तेरेवोत्पत्त्यपगमौ ; तथापि प्रतिबन्धकाभावधर्म्यतिरिक्त
विशेषकारणतावच्छेदकावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकाव--
च्छिन्नधर्म्यसमानकालीनस्ववर्तमानव्यवहारविषयताप्रयोजकधर्मानवच्छि-
न्नधर्मत्वं विवक्षितमिति न दोषः । प्रतिबन्धकाभावश्च धर्मी च प्रतिबन्ध-
काभावधर्मिणौ ताभ्यामतिरिक्ते वस्तुनि विशेषकारणतावच्छेदकावच्छिन्ना
कारणता तत्प्रतियोगिककार्यतावच्छेदकावच्छिन्न इति धर्मविशेषणं ।
धर्म्यसमानेत्यारभ्यावच्छिन्नेत्यन्तमपि धर्मविशेषणं । आद्येन शक्तिमादा-
यातिप्रसङ्गनिरासः ; धमर्थनन्तरकालोत्पन्नशक्तेः प्रतिबन्धकाभावधर्मि-
भ्यां विशेषकारणाभ्यामुत्पन्नत्वात् । द्वितीयेन ज्ञाततामादायातिप्रसङ्ग-
भावप्रकाशः
 
;
 
*'आगन्तुकास्सन्तीति-धर्मधर्मिणोरत्यन्तभेदस्य साधयिष्यमाण-
 
2*