This page has not been fully proofread.

18
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
तत्वमुक्ताकलापः
 
मव्यक्तकालौ । अन्त्यं प्रत्यक्पराक्च प्रथममुभ-
यथा तत्र जीवेशभेदान्नित्या भूतिर्मतिश्चत्यपरमपि
जडामादिमां केचिदाहुः ॥ ६ ॥ तत्र द्रव्यं दशावत्
सर्वार्थसिद्धिः
 
अव्यक्तशब्देन व्यक्तमपि लक्ष्यते । तदनन्यद्रव्यत्वज्ञापनार्थं ।
प्रत्यक - स्वस्मै भासमानं । पराक - परस्मा एव भासमानं । भूति-
त्रिभूतिः - स्वातिशयाधानार्थ नियन्तव्यद्रव्यं । नित्या भूतिरिति
नित्यमाचुर्यतश्शुद्धसत्वमुपलक्ष्यत । इह आदिमां - नित्यभूर्ति
केचिज्जडामाहुरिति समृध्यमतभेदोक्तिः ॥ ६॥
 
इति द्रव्याद्रव्यविभागः.
 
प्रस्तुतस्य द्रव्यस्य तदवान्तरभेदानां च लक्षणमाह-तत्रेति
तत्र - द्रव्याद्रव्ययोर्मध्ये द्रव्यं दशावत् * विकारधर्मवदित्यर्थः ।
आनन्ददायिनी
 
ननु द्रव्यस्यावस्थायोगित्वकथनमयुक्तं द्रव्यादिनिरूपणस्यैव
कर्तव्यत्वादित्यभिप्रायेणाह - प्रस्तुतस्येति । दशाशब्दस्यावयवार्थत्वे
नित्येष्वव्याप्तिरित्यत्राह — विकारधर्मवदित्यर्थ इति — धर्मवत्त्वं लक्षण-
मित्युक्ते अभावरूपधर्मवति गुणेऽतिव्याप्तिः । भावरूपधर्मवत्त्वमित्युक्ते
रूपत्वादिजातिमति पुनरप्यतिव्याप्तिः । अत उक्तं विकारधर्मवत्त्वमिति ।
 
-
 
भावप्रकाशः
 
*' विकारधर्मवदिति–अपृथक्सिद्धिसंबन्धेन आगन्तुकधर्मवदित्यर्थः ।