This page has not been fully proofread.

सरः ]
 
1
 
द्रव्यादिविभागः
 
तत्वमुक्ताकलापः
 
17
 
माहुः*' द्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्य-
सर्वार्थसिद्धिः
 
नीलपीतादिवत् कोट्यन्तरावकाशः । * द्रव्यत्वात्यन्ताभाव-
वस्त्ररूपेण तदन्यत्वस्य विवक्षितत्वात् । द्रव्यलक्षणं वक्ष्यति ।
जडमिह स्वगोचरज्ञानत एव प्रकाशमानं ।
 
आनन्ददायिनी
 
ननु द्रव्यान्यत्वं द्रव्यस्याप्यस्ति घटस्य पटादन्यत्वात् । तथाच
तदन्यरूपेण विभागे नीलपीतादिवत् कोट्यन्तरमस्त्येवेत्यत आह- द्रव्य-
त्वात्यन्ताभाववत्त्वरूपेणेति । स्वगोचरं स्वभिन्नमेव ; भेदनिबन्धनत्वा-
द्विषयविषयिभावस्येति भावः ॥ ६ ॥
 
इति द्रव्याद्रव्यविभागः.
 
भावप्रकाशः
 
*' द्रव्यं द्वेधेति - अथवा द्रव्यं द्विविधं आत्मानात्मभेदात् । त्रेधा
वा भोक्तृभोग्यनियन्तृश्रुत्यनुसारात् । षोढा वा- त्रिगुणकालजविश्वरशुद्ध-
सत्वमतिभेदात् । एकं वा इतरविशिष्टं प्राधान्यतः परं ब्रह्म ; मुमुक्षुभिः
प्रकर्षेण मेयत्वश्रुतेः इति न्यायपरिशुद्धिः । अशेषचिदचित्प्रकारं
ब्रह्मैकमेव तत्वं । तदन्तर्गतं च सर्वं द्रव्याद्रव्यात्मना विभक्तं इति
न्यायसिद्धाज्ञ्जनम् ।
 
*2 द्रव्यत्वात्यन्ताभाववत्त्वरूपेणेति - एतेन प्रतियोगिमत्ताविरोधित्वं
सूचितम् । ' वस्त्वन्तरगतासाधारणविरोधिधर्म एव समानाधिकरणव्यधि-
करणनिषेधभेदेनान्योन्याभावोऽत्यन्ताभावश्च ' इति तात्पर्यचन्द्रिका-
सूक्तिरत्रानुसन्धेया ॥
 
SARVATHA.
 
2
 
"