2025-01-21 07:35:41 by ambuda-bot
This page has not been fully proofread.
16
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
[जडद्रव्य
'*प्रमितम् । तथात्वं च सर्वसाधारणम् । तदपि हि सामान्यतः
प्रमितम् । अन्ततस्स्वपरनिर्वाहान्नानवस्था । इदं च साधम्र्म्याक्ति-
मात्रम् ; व्यवच्छेद्याभावेन लक्षणत्वासिद्धेरित्येके । निर्दिष्टव्या-
पित्वे सति तदन्यवृत्तिरहितत्वात् लक्षणमपि स्यादित्यन्ये ।
वाह्यकुदृष्टिव्यावृत्तास्तद्विदः । अत्र तत्तदन्यरूपेण विभागेषु न
आनन्ददायिनी
-
तदपीति-प्रमितत्वमित्यर्थः । ननु प्रमितत्वेऽपि प्रमितत्वे अनवस्थेत्याह-
अन्तत इति । ननु प्रमितत्वस्य लक्षणत्वं नोपपद्यते इतराप्रसिद्धावितरभेदा-
साधकत्वादित्यत्राह-इदं चेति । व्यावर्तकत्वाभावेऽपि व्यवहारप्रयोजकत्वा-
भिप्रायेणाह — निर्दिष्टेति — निर्दिष्टं - लक्ष्यम् । लक्ष्यनिष्ठात्यन्ताभावा-
प्रतियोगित्वं तद्व्यापित्वम् । तदन्यवृत्तित्वनिषेधश्च निर्दिष्टत्वरूपलक्ष्य-
तावच्छेदकव्याप्यत्वम् । तेन तदन्यस्याप्रसिद्ध्या तत्प्रयुक्तदोषानवकाशः ।
केचित्तु निर्दिष्टं स्वलक्ष्यम् । स्वलक्ष्यव्यापकत्वे सति तदन्य-
निष्ठत्वं तत्तदतिव्यापकेषु प्रसिद्धं प्रकृते निषिध्यते ; यथा स्वोपादान-
गोचरजन्यकृतिजन्यान्यत्वमित्यत्रेत्याहुः ॥
1
-
भाव प्रकाशः
प्रमितमिति – द्रव्याद्रव्ययोरेकजातीयप्रमाविषयत्वोक्तया
निर्विकल्पकमेकमेव प्रमा न तु विकल्पः । निर्विकल्पके धर्मी भासते
सविकल्पके च धर्माः । अतो धर्मिमात्रमेव परमार्थसदिति वैभाषिक-
कुसृतेर्नावकाश इति सूचितम् । विवेचयिष्यते चेदमुपरिष्टात् । एतन्नयायेन
च न ब्रह्मगुणापलापइति स्पष्टं निर्विकल्पकवादे ॥
* तदन्यवृत्तिरहितत्वादिति -- सिद्धान्ते भावान्तराभावपक्षाङ्गी-
कारेण तदन्यस्याप्रसिद्धावपि न क्षतिः । विवेचयिष्यते चैतदग्रे ॥