This page has not been fully proofread.

सरः ]
 
प्रवन्धावतरणम्
 
15
 
तत्वमुक्ताकलापः
 
अस्तिनास्त्योरनवधिकुहनायुक्तिकान्ताः कृतान्ताः
तत्वालोकस्तु लोप्तुं प्रभवति सहसा निस्समस्तान्
समस्तान् पुंस्त्वे तत्वेन दृष्टे पुनरपि न खलु
प्राणिता स्थाणुतादिः ॥ ५ ॥
 
द्रव्याद्रव्य प्रभेदान्मितमुभयविधं तद्विदस्तत्व-
सर्वार्थसिद्धिः
 
दर्थेष्वस्तिनास्त्योरानन्त्यादित्यन्वयः । अस्तिनास्त्योरिति प्रयो-
गपरम् । कुहना—छन्न तत्सम्वन्धिन्यो युक्तयः कुहनायुक्तयः
हेत्वाभासच्छलजातिरूपाः । ताभिः कान्ताः सम्यक्त्वेनैव
भाताः। तत्वालोकः यथार्थाध्यवसायः । प्रकृतशङ्कानिरासार्थं
अपेक्षणीयान्तराभावात्सहसेत्युक्तम् । निस्सम इति निरवधिक-
त्वोपलक्षणम् । प्रतिरोधवाधरहित इत्यर्थः । उक्तस्थापकं
त्रय्यन्तार्थविशेषव्यञ्जकमप्यर्थान्तरं न्यस्यति - पुंस्त्व इति । पुनर्न
प्राणिता संशयविपर्ययसामग्रीलोपान्न भासेतेत्यर्थः ॥ ५ ॥
 
अथ निरूप्यमर्थजातं साधर्म्यवैधर्म्यभेदेस्संगृह्य विभज्य
च निर्दिशति - द्रव्येति । अत्र तत्वमिति पदार्थमात्रोक्तिः । मितं-
आनन्ददायिनी
 
न्त्याभावादित्यत आह -- अस्तिनास्त्योरिति प्रयोगाणां बहुत्वाद्विषय-
विषयिभावसंबन्धेनार्थगतत्वमिति भावः ॥ ५ ॥
 
ननु निरूपणे प्रवृत्तस्य तत्वविभागकरणमसङ्गतमित्यत्राह--
अथ निरूप्यमिति । निरूपण सौकर्याय विभागः कृत इति भावः ।