2025-01-21 07:35:40 by ambuda-bot
This page has not been fully proofread.
सरः ]
प्रबन्धावतरणम्
तत्वमुक्ताकलापः
13
तत्तत्प्रकारावगतिविरहिभिर्नैव याथात्म्यबोधः ।
तेते चार्था विदध्युः कुमतिविरचिताः तत्वबोधोप-
सर्वार्थसिद्धिः
कथमस्मत्सिद्धान्तानभिज्ञः कथायामस्माभिरधिकुर्यात् ? पर-
कल्पितार्थभङ्गेन तदहंकारखण्डनं च तत्वाध्यवसायसंरक्षणार्थम् ।
तत्तदिति प्रस्तुतौ जीवेशौ गृह्येते । अथवा तत्तत्प्रकृत्यादि -
प्रकारबोधाभावे तत्प्रतिसंबन्धिकं तयोरपि याथात्म्यं नावगम्येत ।
ते ते चार्था :- ' *ब्रह्मविवर्तपरिणामभिन्नाभिन्नत्वादयः । कुमति-
विरचिताः कुदृष्टिभिः कल्पिताः भ्रान्तिविजृम्भिता इति वा ।
आनन्ददायिनी
-
वीप्साया अभावात् द्वन्द्वो वाच्यः ; स न युक्तः एकशेषप्रसङ्गादित्य -
भिप्रायेणाह — अथवा इति केचित्तु - ' तत्तदिति प्रकृतौ जीवेशौ
गृह्येते ' इत्यस्यायमर्थः -- तत्तदित्यत्र प्रथमतच्छब्देन जीवेशौ गृह्येते ।
तयोः तत्प्रकारः–तत्तत्प्रकारः ; व्यावर्तकत्वेन श्रुतिप्रतिपन्नप्रकार ः इति
न वीप्साद्वन्द्वौ ; अपि तु षष्ठीतत्पुरुषः इत्याहुः । मायिनो विवर्तपक्षः ।
भास्करस्य परिणामः । यादवस्य भेदाभेदौ । आदिशब्देनासत्कार्य-
भावप्रकाशः
'*ब्रह्मविवर्तेत्यादि -- उपादानविषमसत्ताको ऽन्यथाभावो विवर्तः ।
तत्समसत्ताको ऽन्यथाभावः परिणामः । अत्र परिणामपक्षः शङ्कराचार्ये-
भ्योऽपि प्राचीनस्य भर्तृप्रपञ्चस्य अर्वाचीनानां यादवप्रकाशानां च संमत
इत्युत्तरत्र व्यक्तीभविष्यति । विवर्तवादः ब्रह्मस्वरूपपरिणामवादश्च दूषितौ
श्लोकवार्तिके भट्टैः ॥