This page has not been fully proofread.

12
 
सव्याख्यसर्वार्थसिद्धिसहित तत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
की नुमानयोर्व्याप्तिः शङ्काकळङ्किता स्यात् । परोक्तानुमानानाम-
न्यतरा सिद्धयनैकान्तिकत्वाद्युद्भावनं च कथं स्यात् ? परो वा
 
भावप्रकाश:
 
"
 
दिव्यमङ्गलविग्रहविशिष्टनिर्गुणवासुदेवविषयकत्वस्य संप्रज्ञातस्थितिमति-
गते निर्विकल्पे समाधौ इत्यादिश्लोके व्यक्तत्वात् । सूत्रकारश्च
' इतरे त्वर्थसामान्यात् ' ' आनन्दादयः प्रधानस्य' इति सूत्रद्वयेन
स्वरूपनिरूपकचिदचिद्व्यावर्तक गुणवत्तायाः मोक्षोपायज्ञाननैयत्यं सिद्धा-
न्तयामास । वपुषःकाळिमेत्यनेन दिव्यमङ्गलविग्रहस्य सर्वविद्यानुयायि-
त्वव्यञ्जनेन अद्द्रव्यमध्ये शब्दस्पर्शरूपरसगन्धानां तथात्वस्य सूचनात् ।
'सर्वं खल्विदं ब्रह्मेत्यादि . अनादरः' इत्यन्तशाण्डिल्यविद्यासन्दर्भे
दिव्यमङ्गलार्वग्रहस्य तद्गुणानां च विषयत्वस्य सर्वत्रप्रसिद्ध्यधिकरणभाष्ये
व्यक्तमुपपादनात् । दहरविद्यायां च ' तस्मिन् यदन्तस्तदन्वेष्टव्यम् '
इत्यत्र ' अस्मिन् कामास्समाहिता.' इत्यत्रैवोक्त गुणानां विवक्षा 'तस्मिन्
यदन्तः इति कामव्यपदेश:' इति वाक्यग्रन्थसिद्धा । तत्र शक्तेरपह-
तपाप्मत्वादौ संयोगस्य सर्वाविद्यानुयायिन्यनन्तत्वादौ निर्गुणश्रुतौ
निषेध्यतया सत्वरजस्तमसां च ज्ञेयता भाव्यादिनिष्णातानां सुगमा ।
जडाजडविभागे च स्वयंप्रकाशत्वज्ञानस्य अचिद्विलक्षणत्वज्ञापनमुखेन
पारलौकिकभोगार्थ प्रवृत्तिप्रतिबन्धकनिवृत्तिसंपादकता ' प्रकृत्यात्मभ्रान्ति-
गलति चिदचिल्लक्षणधिया' इति सूक्तिसिद्धा । ब्रह्मणि स्वयंप्रका
शत्वस्य सर्वविद्यानुयायिता 'ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया
स्वप्रकाशत्वतश्च' इत्यनेन निर्णीता । प्रत्यक्पराग्विभागे च अहन्त्वरूप-
प्रत्यक्तज्ञानस्य अहमर्थो न चेदात्मा' इत्यादिभाष्योदाहृतसूक्ति-
प्रतिपादितदिशा मोक्षार्थप्रवृत्त्युपयोगित्वं धर्मभूतज्ञानस्य पराक्तेन धर्म-
भिन्नत्वज्ञानसंपादनमुखेन चोपयोग इत्यादिकं स्वयमूह्यम् ॥