This page has not been fully proofread.

सरः]
 
प्रबन्धावतरणम्
 
9
 
शिष्टा
 
तत्वमुक्ताकलापः
 
सर्वार्थसिद्धिः
 
'* नन्वपवर्गसिद्धौ यदन्तरङ्गं तदेव विशदं तदर्थिभिरव-
गन्तव्यम् । तावदेव शिष्यादिभ्योऽपि प्रवर्तितव्यम्, किमन्यैरिह
कीर्त्यमानैरित्यत्राह – शिष्टेति ।
 
आनन्ददायिनी
 
ननु तत्वमुक्ताकलापं व्यातानीत् इति वदता तत्वनिरूपणं
विहाय जीवेशज्ञानपूर्वकोपासनाया मुक्तिहेतुत्वप्रतिपादनमनुपपन्नं इत्य-
त्राह - ननु अपवर्गसिद्धाविति ॥
 
भावप्रकाशः
 
--
 
1* नन्वपवर्गसिद्धाविति — अयमाशयः —— यद्यपि पदार्थानां पर-
स्परव्यावर्तकाकारप्रदर्शनैदम्पर्येण प्रवृत्ते वैशेषिकदर्शने द्रव्यगुणकर्म-
सामान्यविशेषसमवायरूपेण विभक्तानां पदार्थानां मध्ये कर्मादीनां
द्रव्यगुणयोरेवान्तर्भावेन द्रव्यस्यापि गुणत्वेन व्यवहारेण च गुणपदस्थाने
अद्रव्यपदं निवेश्य द्रव्यमद्रव्यमित्येव तत्सूत्रं शिक्षणीयमिति व्याससिद्धान्त
इति न्यायपरिशुद्धौ निपुणतरमुपपादयिष्यमाणदिशा द्रव्याद्रव्यविभागोऽपि
युक्तस्स्यान्नाम ; अथापि न्यायपरिशुद्धौ प्रमेयाध्याये द्रव्याद्रव्यविभाग-
ज्ञानस्य साक्षादपवर्गसाधनत्वाभावस्य स्फुटं प्रदर्शनात् श्रुतिसंप्रदायसिद्धं
स्वैरेव ग्रन्थान्तरेषु प्रदर्शितं ईशेशितव्यविभागं परावरविभागं च परित्यज्य
द्रव्याद्रव्यप्रभेदादिति वक्ष्यमाणविभागकरणमनुचितं ईशेशितव्यपरावर-
विभागज्ञानस्य अपवर्गान्तरङ्गत्वात् इति ॥