This page has not been fully proofread.

सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलाप:
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
आतन्वानः प्रकाशं बहुमुख मखिलत्रास वैधुर्य धुर्यो
धार्यो हेतु *' जयादेस्स्वहृदि सहृदयैस्तत्वमुक्ता-
 
कलापः ॥ ३ ॥
 
सर्वार्थसिद्धिः
 
श्रीस्थत्वम् । प्रकाशं- आलोकं बोधं च । बहुमुखं सर्वतोदिकं
सर्वविषयं च । त्रासो - मणिदोपः प्रतिपक्षानीतिश्च । जयादेरि-
त्यादिशब्देन कचिदैश्वर्यादेरन्यत्र तत्वनिर्णयस्य च संग्रहः ।
हृच्छन्दो वक्षचित्तं च वदति । सहृदयैस्सारासारविवेचनाई-
हृदयवाद्धः । धार्यः क्वचिदाभरणतयाऽन्यत्राप्रमोषेण ॥ ३ ॥
आनन्ददायिनी
 
नाशङ्कयः ; तद्व्याख्याने - 'स्वरसन्ध्याप्त सौन्दर्ये यतिभङ्गो न दोषभाक् '
इत्यभिधानात् । अत्र स्वरसन्धिलब्ध सौन्दर्यसत्त्वान्न दोष इति भावः ॥
भावप्रकाशः
 
अपि विधिकोटिवादिन एव । ' सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म '
'ज्ञोऽत एव' इत्यादिसूत्रैस्तथाऽवगमात् । अत एव शवरस्वामिनाऽपि
आत्मनोऽहम्प्रत्ययविषयत्वं विज्ञानाश्रयत्वं चोक्तम् । कुमारिलभट्टेश्व
आत्मनः कौटस्थ्यार्निराकरणपूर्वकं तद्व्यवस्थापनं कृतम् । शङ्कराचार्यैरपि
समन्वयाधिकरणे आत्मनः कूटस्थनित्यताभ्युपगमेन वृत्तिकारमतं निरा-
कृतम् । अतो मीमांसका अपि सगुणात्मवादिन एव । विभागे चास्मिन्
ब्रह्मणः परिणामज्ञानं स्वभिन्न गुणवत्ता ज्ञानं च मोक्षसाधनमित्येतदंशद्वय-
सूचनफलम् । अत एव ' जन्माद्यस्य यतः ' ' परिणामात् ' ' अदृश्य-
त्वादिगुणको धर्मोक्तेः ' ' विवक्षितगुणोपपत्तेश्च' इत्यादिसंगतिः ।
व्यक्तीभविष्यति चेदमुपरिष्टात् । * ' जयादेरित्यनेन न्यायसिद्धाज्ञ्जनन्या-
यपरिशुद्धयपेक्षया तत्वमुक्ता कलापस्य परमतनिराकरणप्राधान्यं बोध्यते ॥