2025-01-21 07:35:38 by ambuda-bot
This page has not been fully proofread.
6
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरे-
स्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्ड-
रीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि तत-
स्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपा-
लम्भितोद्दामभूमा ॥ २॥
यथास्थानमृह्यम् ॥ १ ॥
सर्वार्थसिद्धिः
चिकीर्षितस्य श्रद्धेयत्वाय वक्तृसंप्रदायवैलक्षण्यं दर्शयति-
नानेति । सत् - प्रामाणिकं मुमुक्षुभिरुपादेयं च तदन्यत् असत् ।
सतस्सच्वेन असतवासच्त्वेन श्रवणमिहेष्टम् । ततः श्रवणादेव हेतोः ॥
आनन्ददायिनी
यथास्थानमिति—–अविरलतुलसीत्यादौ ॥ १ ॥
ननु प्रारिप्सितं विहाय नानासिद्धान्तेत्यादिना स्वमहिमवर्णनमनु-
चितमित्यत्राह-चिकीर्षितस्येति । सदसतोर्वैपरीत्येन श्रवणे श्रद्धेयत्वं न
स्यादित्यत्राह – सत इति । व्यातानीदिति — आशंसायाम् ; कर्तुमाशंसत
इत्यर्थः । सङ्कल्पमात्रेण ग्रन्थस्य सिद्धत्वं मत्वा भूतनिर्देशः ॥ २ ॥
भावप्रकाशः
न्यायपरिशुद्ध वक्ष्यते । इह केचन दार्शनिकाः बन्धमोक्षव्यवस्थादि-
सौकर्यमभिसंदधाना अहं प्रत्ययविषयं सगुणमात्मतत्वमाचक्षते ।
अपरे पुनर्दार्शनिकाः कूटस्थ नित्यं परिणामिनित्यमिति द्वैविध्यं परिभाष-