2025-01-21 07:35:38 by ambuda-bot
This page has not been fully proofread.
सरः]
प्रबन्धावतरणम्
तत्वमुक्ताकलापः
भूमा कालिन्दीकान्तिहारी कलयतु वपुषः काळिमा
* कैटभारेः ॥ १ ॥
सर्वार्थसिद्धिः
5
काळिन्दीकान्तिहारीत्यनेन तद्गुणानां परगुण'* तिरस्कारकत्व -
मुपलक्ष्यते । कैटभारेर्वपुष इति व्यतिरेकविभक्तया शुद्धसत्व-
मयविग्रहयोगस्तस्य स्वरूपादन्यत्वं च स्थाप्यते । वपुषः काळि -
मेति ** द्रव्याद्रव्यविभागप्रदर्शनार्थम् । एवं जड जडाद्यपि
1
स्पष्टं मोक्षधर्मे ।
भावप्रकाशः
* कैटभारेरिति — एतच्च अनिरुद्धस्य हयशिरोरूपधारणेनेति
तद्गुणानामिति---कैटभारेर्वपुषः काळिमेत्यत्र दिव्य-
मङ्गळविग्रहसंबन्धिगुणमात्रप्रदर्शनं भगवता साक्षादसंबद्धानामपि दिव्य-
मङ्गळ विग्रह संबन्धिगुणानां संपदोघप्रदत्वे भगवता साक्षात्संबद्धानां
ज्ञानशक्तयादिगुणानां तत् कैमुतिकन्यायेन सिद्ध्यतीति दर्शयितुं
भगवद्गुणानामिव दिव्यमङ्गलविग्रहस्याप्युपासनानियतत्वं ख्यापयितुं
च । अतश्च तद्गुणानामित्यत्र साक्षात्परम्परया च भगवत्संबन्धिनो
गुणा विवक्षिताः । * तिरस्कारकत्वमिति ---कैटभारिशब्दघटककैटभ-
शब्दयोगार्थोऽप्येनमुत्तम्भयति । अत एव मधुसूदनादिपदत्यागः ।
6
3
तेन
' यं पश्येन्मधुसूदनः' इति हयशिर उपाख्यानानन्तराध्यायस्थवचनानु-
सन्धानेन भगवद्यामुनमुनिभिः ' तस्मै नमो मधुजिदङ्घ्रि' इत्यत्र मधु-
जिच्छब्देन हयशिरसो निर्देशवत् नात्र कुतो निर्देश इति शङ्का प्रत्युक्ता ।
चशब्देन तस्य मोक्षसाधनज्ञानविषयता समुच्चीयते । 'द्रव्याद्रव्ये
त्यादि—विभागे चात्र द्रव्यगुणेत्याद्यक्षपादसूत्रपरिष्करणं मूलमिति