This page has not been fully proofread.

सरः ]
 
प्रवन्धावतरणम्
 
सर्वार्थसिद्धिः
 
ताराकल्पे स्फुरति सुधियां तत्वमुक्ताकलापे
 
दूरादृत्त्या दुरधिगमतां पश्यतां सर्वसिद्धयै ।
नातिव्यासव्यतिकरवती नातिसङ्कोचखेदा
 
वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥ २ ॥
आरिप्सितस्य प्रबन्धस्याविघ्नपरिसमाप्तयादिसिद्धयै मङ्गळ-
माचरन्नर्थाद्वक्ष्यमाणं द्रव्याद्रव्यविभागं प्रतितन्त्रविशेषांश्च संग्र
आनन्ददायिनी
 
3
 
श्रीमान् वेङ्कटनाथार्यः तत्वहितपुरुषार्थज्ञानहीनानवलोक्य सञ्जात कारुण्यः
तद्रक्षणाय प्राचीनप्रबन्धेषु संक्षिप्तान् विप्रकीर्णांश्च सङ्कलय्य तत्वमुक्ता-
कलापाख्यपद्यरूपप्रबन्धेन निरूप्य तस्य दुरधिगमतामवलोक्य स्वयमेव
व्याख्यास्यन् निर्विघ्नपरिसमाप्तिप्रचयगमनाय शिष्टाचारपरिप्राप्तं गुरु-
प्रकाशनरूपं मङ्गलमारचय्य शिष्यशिक्षार्थं निबध्नाति—जयतीति ॥
 
ताराकल्पे - नक्षत्रसदृशे । दूराद्वत्या - नक्षत्रपक्षे दूरस्थित्येत्यर्थः ।
' दूरान्तिकार्थेभ्यो द्वितीया च' इति सप्तम्यर्थे पञ्चमी । ग्रन्थपक्षे
वृत्तिः---व्याख्या वृत्त्या इति षष्ठी ; वृत्तेर्दूराद्धेतोः -- वृत्त्यभावादिति
यावत् । यद्वा कर्तरि तृतीया । वृत्त्या -- क्रमदूरत्वादित्यर्थः ।

दुरधिगमत्वं एकत्र अप्राप्तिः अपरत्राज्ञानम् । व्यासो –— विस्तरः ।
व्यतिकरः सङ्कीर्णता । खेदा – खिद्यमाना कर्मणि
 
-
 
भावप्रकाशः
 
श्रीकृष्णब्रह्मतन्त्रात् कलिमथनगुरोर्लब्ध वेदान्तसारः
विन्यस्तस्वात्मभारो वरदपदमुखे लक्ष्मणे देशिकेन्द्रे ।
 
वागीशप्राप्ततुर्यः हयमुखचरणत्राण सेवाधुरीणः
 
घञ्
 
क्वाचित्काचार्यभावं प्रकटयति यतिः नव्यरङ्गेन्द्रनामा ॥ ३ ॥
 
1*