This page has not been fully proofread.

2
 
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
श्रीतत्वमुक्ताकलापव्याख्या सर्वार्थसिद्धिः
 
जड द्रव्य सरः प्रथमः
 
श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ।
जयति सकलविद्यावाहिनीजन्मशैलो
जनिपथपरिवृत्तिश्रान्तिविश्रान्तिशाखी ।
निखिलकुमतिमायाशर्वरीबालसूर्यो
निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः ॥ १ ॥
आनन्ददायिनी
 
आत्रेयवंशदुग्धाब्धिप्रालेयांशुं कलानिधिम् ।
सुराचार्यसमप्रज्ञमप्पलाचार्यमाश्रये ॥ ६ ॥
 
श्रीवत्सगोत्राम्बुधिमध्यदेशात्
 
बभूव चन्द्रो नरसिंहनामा ।
 
तस्यात्मजः साधुजनैकसेवी
 
नृसिंहदेवः प्रथितो धरायाम् ॥ ७ ॥
तोतारम्बातनयः पौत्र श्रीदेवराजस्य ।
 
दौहित्रः कुशिककुलश्री भाप्यश्रीनिवासस्य ॥ ८॥
अप्रसिद्धस्य पक्षस्य विस्तरेण प्रकाशिकाम् ।
 
सर्वार्थसिद्धिसट्टीकां करोम्यानन्दवल्लिकाम् ॥ ९ ॥
इह खलु कवितार्किकसिंहः सर्वतत्र स्वतन्त्रो वेदान्ताचार्यापरनामा
 
भावप्रकाशः
 
वेदान्तगुरुमुखार्चितवागीशपदारविन्दमधुपाळिम् ।
श्रीब्रह्मतन्त्रकालजिन्मणिमालां वन्दिषीय सुमहार्घाम् ॥ २ ॥