2025-01-21 07:50:44 by ambuda-bot
This page has not been fully proofread.
640
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
आनन्ददायिनी
अधिहृदयगुहं मे वासमासाद्य नित्यम्
व्यलिखदखिलमर्थं ह्माद्यमुक्तासरस्य ॥
इति कौ(कु)शिककुलजलनिधिसुधाकरस्य निगमान्त (निगमशिखरपर)-
विद्या कुमुदिनी संमोद (दिनीनिशा ) करस्य वेदान्ताचार्यस्य भागि-
नेथेन वत्सकुलतिलक(वत्सकुलकलशजलधिकौस्तुभ ) श्री-
नृसिंहगुरुतनयेन नृसिंहदेवेन विरचितायां सर्वा-
र्थसिद्धिव्याख्यायां आनन्ददायिन्यां जड-
द्रव्यसरः प्रथमः ॥
भावप्रकाशः
प्राचीनमेव पन्थानमनुरुन्धानाः कविचक्रवर्तिनः काणादाक्षपाददर्शने
निरवशेषमेवाकुलीकृत्य जगतोऽनिर्वचनीयत्वं स्थापयामासुः । आचार्याश्च
जैमिनिव्यासाशयानुरोधेन तद्दर्शनपरिष्करणेन जगतस्सत्यतां प्रत्यनैषुः ।
तत्र सर्वार्थसिद्धिः परमतनिरसनप्रधाना । न्यायपरिशुद्धिन्यायसिद्धा-
जने तु स्वमतस्थापनप्रधाने इति विवेकः ।
स्वतन्त्रस्तन्त्रेषु क्वच निगमचूडागुरुमणिः
क नाधीती शास्त्रे क्वचिदपि यथावन्मितमतिः ।
स्वयं पङ्गोर्मूर्ध्नि प्रबलतरगङ्गाझरसमो
दृढाभक्तावस्मिन् गुरुवरकटाक्षः प्रपतति ॥
इति श्री लक्ष्मीहयग्रीव दिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ
ब्रह्मतन्त्र परकाल यतिकृते लघुनि सर्वार्थसिद्धिटिप्पणे
भावप्रकाशे जडद्रव्यसरः प्रथमः