2025-01-21 07:35:38 by ambuda-bot
This page has not been fully proofread.
॥ श्रीमते हयग्रीवाय नमः ॥
श्रीसर्वार्थसिद्धिव्याख्या आनन्ददायिनी
श्रीमान् वेदान्तवेद्यः शुभगुणनिलयो निस्समस्सर्वदोष-
प्रत्यर्थीभूतमूर्तिः चिदमितमहिमानन्द सत्य स्वरूपः ।
सृष्टिस्थित्यन्तलीलः सकलचिदचितां मोक्षदस्सर्वविद्या-
वेद्यो वार्गाशमूर्तिः वृषभ गिरिपतिः श्रेयसे स्यात्सदा नः ॥ १ ॥
जरीजृम्भत् स्तन्भादुदयगिरिश्रृङ्गादिव रविः
विभिन्दानो रक्षस्तिमिरपटलीं यः कररुहैः ।
वितन्वन्नानन्दं मृगपतिनराकारघटितः
स नःश्रेयो देयादमृतफलवल्लीसहचरः ॥ २ ॥
आराधनार्थं वृषशैलभर्तुः घण्टा मुदा पद्मभुवा प्रयुक्ता ।
यद्रूपमास्थाय जगन्त्यरक्षत्तमेव वेदान्तगुरुं नमामि ॥ ३ ॥
प्रतिमतकथकधुरन्धरविद्याहङ्कारतूलवातूलः ।
सकलजनवन्दनीयो भवतु मुदे मे महागुरुर्नित्यम् ॥ ४ ॥
कुशिककुलजलार्धचन्द्रो निगमान्तगुरु श्रीनिवासो नः ।
जयति यतिराजदर्शितसिद्धान्ताम्भोजमोद करभानुः ॥ ५ ॥
श्रीसर्वार्थसिद्धिटिप्पणं भावप्रकाशः
वागीशाख्या श्रुतिस्मृत्युदितशुभतनोर्वासुदेवस्य मूर्तिः
ज्ञाता यद्वागुपज्ञं भुवि मनुजवरैः वाजिवक्त्रप्रसादात् ।
प्रख्याताश्चर्यशक्तिः कविकथकहारः सर्वतन्त्र स्वतन्त्रः
त्रय्यन्ताचार्यनामा मम हृदि सततं देशिकेन्द्रस्स इन्धाम् ॥