This page has not been fully proofread.

638
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
तत्वमुक्ताकलापः
 
वायुर्दोधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं
खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्माधवीं
 
सर्वार्थसिद्धिः
 
ग्रहण इति ; मैवम् ; प्रसङ्गतोऽपि नियमसिद्धेः । तथा हि-
इदं सर्वकारणमिति बोधयतामयमाशयः – यद्येतन्न स्यात् सर्वं
नोत्पद्यते ; अतस्सर्वोत्पत्तिप्रयोजकमेतदिति । न पुनर्यदा यद
नास्ति तदा तत्र सर्वं नास्तीति व्याप्तिः । अतस्ष्ट्रक्तं नित्य-
व्यापिनः कालस्य सर्वकार्यहेतुत्वम् ॥ ६९ ॥
 
कालस्यावच्छेदप्रकारविभुत्वसर्वहेतुत्वानि.
 
प्रकृतचिन्तावर्गस्य परब्रह्मवैभवव्यञ्जकतया सार्थकत्वं
प्रथयति - वायुरिति । माधवीं पृथिवीम् । 'मेघोदयस्सा-
 
-
 
आनन्ददायिनी
 
तथा हीति । आरोपितेनाभावेनापादनसम्भवादिति भावः । न पुनरिति
व्याप्तिरिति तथा व्यतिरेकव्याप्तिसत्त्वं नापेक्षितमिति भावः ॥ ६९ ॥
कालस्यावच्छेदप्रकार विभुत्व सर्वकार्य हेतुत्वानि.
 
उत्तरश्लोकस्य तत्वानिरूपकत्वादसाङ्गत्यमाशङ्कय संगतिमाह-
 
प्रकृत (ति)चिन्तावर्गस्येति ॥ ७० ॥