2025-01-21 07:50:43 by ambuda-bot
This page has not been fully proofread.
सरः] कालस्य नित्यत्वविभुत्वसमर्थनं प्रतिबन्दीनिरासः विभोः कारणत्वोपपत्तिश्च 637
सर्वार्थसिद्धिः
सव परमात्मास्तीति तस्य कालव्यापकत्वम् । इदं च तस्य
धर्मभूतज्ञानेऽपि द्रष्टव्यम् । 'परमात्मनः स्वरूपैकदेशे विश्वं व्यव-
स्थितम्' इत्येतदपि तादृशव्यतिरिक्तविषयम् । अन्यथा तस्य
ज्ञानानन्दत्वादेरप्येकदेशित्वप्रसङ्गात् । न चैवं सति सर्वजी -
वानां व्यापित्वेऽप्यविरोधस्स्यादिति वाच्यम्; अणुत्वश्रुत्या
तत्प्रतिषेधादिति । ननु कालतो देशतो व्यतिरेकग्रहणस्याशक्य-
त्वान्नित्यविभूनां कारणत्वमेव न सिध्यति ; कुतस्सर्वकारणत्वम् ;
इत्यनुयोगश्च धर्मिग्राहकणैव निरस्तः । अस्ति हि लोकेऽप्युप-
देशतोऽपि तत्तद्वस्तुषु कारणत्वग्रहणम् ! अथ स्यात् ; नियत-
पूर्वसत्त्वं कारणत्वम् । नियमश्चास्मिन् सत्येवेदं भवतीत्येवं रूपः ।
तत्रावधारणसिद्धोऽन्यदा नास्तीत्ययमर्थो नित्येषु च विभुष्व-
आनन्ददायिनी
वक्तव्यमित्याह-इदं चेति । धर्मभूतज्ञानस्य विभुत्वादिति भावः । ननु-
तस्य स्वरूपैकदेशे विश्वमेतद्व्यवस्थितम् ।
तस्यायुतायुतांशांशे विश्वशक्तिरवस्थिता ॥
-
इति वचनविरोधस्स्यादित्यत्राह - परमात्मन इति । विश्वशक्ति:-
विश्वमित्यर्थः । अन्यथेति । ज्ञानस्य प्रादेशिकत्वे क्क (किं) चित्प्रदेशे
जडत्वप्रसङ्गादिति भावः । ननु व्याप्यत्वान्यथानुपपत्त्या जीवाणु (वान्य) त्वं
न स्यादित्यत्राह ---
न चैवमिति । ग्राहकाभावेन ग्राह्याभावं शङ्कते -
नन्विति । असिद्ध्या परिहरति-- निरस्त इति । असिद्धिमेवोपपादयति–
धर्मग्रहण इति । ननूपदेशो योग्यताविरहान्न बोधक इति शङ्कते -
अथेत्यादिना । ग्राह्यस्य बाधादिति भावः । तर्कस्वरूपमाह-
---