This page has not been fully proofread.

636
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
[जडद्रव्य
 
मात्रम् । न तु सर्वदा सत्ता; कालान्तराभावात् । व्यापित्वं
तु क्षणतोऽपि स्यात् । सार्वत्रिकाणामपि केपांचिद्यौगपद्यसिद्धेः ।

नित्यत्वे प्रागेव प्रमाणं दर्शितम् । व्याप्तिव-
 
कालं स पचते तत्र न कालस्तत्र वै प्रभुः ।
इत्यादिभिस्सिद्धा । त्रिगुणविभूतिवत् कालप्रतिनियतविकारास्तत्र
न सन्तीत्यर्थः । स्वविकाराणामुपादानतयाऽन्येषां निमित्ततया
वाऽस्य सर्वहेतुत्वं 'कालः पचति भूतानि ' इत्यादिभिर्गम्यते ।
तदपि सर्वत्र सन्निहितस्य । ननु ' अन्तर्बहिश्च तत्सर्वं व्याप्य
नारायणस्स्थितः ' ' सर्वव्यापी सर्वभूतान्तरात्मा' इत्यादिष्वेकस्य
सर्वव्यापकत्वं श्रूयते । अतस्तद्व्याप्यकालस्य कथं विभुत्वम् ?
इत्थम् - न हि न्यूनदेशवर्तित्वमेव व्याप्यत्वम् । तथा सति

समव्याप्तिभङ्गप्रसङ्गात् । तर्हि तद्वदन्योन्यव्याप्यत्वामिह स्या-
दिति चेत्; किमत्रानिष्टम् ? परस्परप्रवेश्यत्वाद्यनभ्युपगमात् ।
द्वयोरपि सर्वसंयोगित्वे विवादाभावात् । अतो यत्र कालस्तत्र
आनन्ददायिनी
 
क्षणसम्बन्धो न सम्भवत्यतीतादेस्संबन्धायोगादित्यत्राह - सार्वत्रिका-
णामपीति । तत्काले वर्तमानानामित्यर्थः । ननूक्तेन प्रमाणेन नित्यवि-
भूतौ कालाभाव एव प्रतीयत इत्यत्राह - त्रिगुणविभूतिवदिति । 'कालं
स पचते' इत्यंशेन कालसत्त्वप्रतीतेरिति भावः । हेतुत्वबलादपि
व्यापित्वं सिद्धमित्याह ---तदपि सर्वत्रेति । ननु सन्निधानाभावेऽपि कार-
णत्वमस्तु को दोषः ? इति चेन्न ; अतिप्रसङ्गाभावाय कारणसन्निधानस्या-
पेक्षितत्वात् । विभुत्वे श्रुतिविरोधं शङ्कते नन्विति । परिहरति
इत्थमिति । द्वयोरपीति विभुनाऽपि संयोगसम्भवादिति भावः ।
अत इति — यत्र कालसम्बन्धस्तत्र परमात्मसम्बन्ध इत्यर्थः । अन्यार्थं चेदं
 
-
 
-