This page has not been fully proofread.

सरः] परिणतिपक्षेऽप्युपाध्यवश्यम्भावः अनित्याव्यापिकालवादि शैवपक्षः 635
 
तत्वमुक्ताकलापः
 
प्राप्नुयुस्सानुबन्धाः नित्यो व्यापी च तादृक्परिणति-
भिरसौ सर्वकार्ये निमित्तम् ॥ ६९ ॥
 
सर्वार्थसिद्धिः
 
अनुबन्धाः — ऋतुलिङ्गादयः । आनन्तर्यनियमादुत्तरोत्तरकार्या-
णामुपाधिमूलत्वं च सिद्धम् । ऋतुलिङ्गादीनां तु न कालकार्य -
हेतुनियमः । ये तु शैवादयः कालमनित्यमव्यापिनं परिमित-
कार्यहेतुं च प्राहुः ; तान् प्रत्याह – नित्य इति । क्षणाद्यंशस्या-
गन्तुकत्वेऽपि स्वरूपतो नित्यः । नित्यत्वं चात्र प्रध्वंसविरह-
 
आनन्ददायिनी
 
-
 
णीयमिति चेत् ; मैवम् ; क्रियादीनां कालत्वे पौर्वापर्यव्यवस्थाया अभावेन
सर्वेषां यौगपद्यप्रसङ्गात् । ननु परिणतिपक्षे उपाध्यभावात् कथं तदा-
त्वित्यादिना उपाधिरुच्यते ? इत्यत्राह — परिणतिपक्षमनूद्येति । ननु तत्प-
क्षस्यानुपाधिपक्षत्वात्कथमुपाधिसम्बन्ध इत्याशङ्कय परिणामस्यापि कादा-
चित्कतया सामग्रीसापेक्षतया तासामेवोपाधित्वादित्यत्राह -- तत्रापीति ।
ननु ऋतुलिङ्गादिकमेव कालव्यवहारहेतुरास्त्व ( लोपाधिरस्त्वि) त्यत्राह
ऋतुलिङ्गादीनामिति । व्यभिचारित्वमित्यर्थः । ये तु शैवादय इति-
क्षणलवादिभिन्नस्य पूर्वोत्तरकालेष्वभा (कालेऽभा) वादनित्यत्वमव्यापित्वं च।
अत एव न सर्वहेतुत्वमिति भावः । क्षणाद्यंशस्येति-क्षणलवादीना-
मौपाधिकत्वपरिणामाभ्यामुपपन्नत्वादिति भावः । ननु नित्यत्वं हि सर्व-
कालसम्बन्धः । स च कालस्य कालान्तराभावान्न सम्भवतीत्यत्राह --
नित्यत्वं चेति । प्रागभावाप्रतियोगिनः कालस्येत्यर्थः । ननु सर्वस्याप्येक-
 
1
 
--