2025-01-21 07:50:43 by ambuda-bot
This page has not been fully proofread.
634
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
तत्वमुक्ताकलापः
जडद्रव्य
रेके तदा तु । ये तत्रोपाधयस्स्युस्त इह परिणतिं
सर्वार्थसिद्धिः
क्रियासंततिवत्काले परिणामपरम्परा ।
किं न स्यात्स्वप्रकर्षाद्यैः परत्वादिप्रसाधिका ? ॥
एकाश्रयक्रियासंख्या काल इत्याप्तभाषितम् ।
कालोपाधिविशेषाणां सर्वेषामुपलक्षणम् ॥
अत्र परिणतिपक्षमनूद्य तत्राप्युपाधिव्याप्तिमाह — तदा त्विति
आनन्ददायिनी
क्रियासंततिवदिति - यथा क्रियाप्रकर्षः कालनिष्ठः परत्वादिहेतुः तथा विभु-
त्वेऽपि कालस्य तन्निष्ठः परिणामपरम्पराप्रकर्षः परत्वादिहेतुरस्तु ! तथाच
परत्वादेरन्यथाऽप्युपपत्तेः न तदर्थमणुत्वं कल्प्यम् । यद्वा कालसम्बन्धप्रकर्षो
न परत्वं तन्नयनता वा अपरत्वम् अपि तु परिणामपरम्पराप्रकर्षा-
वच्छिन्नकालयोगः परत्वं तन्नयूनतावच्छिन्नतद्योऽगोऽपरत्वम् । योगश्च
न संयोगः ; अपि तु आधराधेयभा ( व इति) वादिरूपसम्बन्धविशेष इति
न तदर्थं कालस्याणुत्वं कल्प्यमिति भावः । नन्वणुत्वविभुत्वयोरन्यतर-
निर्णयः : कथम् ? इति चेत्; लाघवेनैकत्वनिर्णयेन; अन्यथा समस्त -
देशवर्तिनां कालयोगे कल्प्यमाने अनन्तकालकल्पनाप्रसङ्गेन गौरवप्रस-
ङ्गात् । ननु-
एकाश्रयक्रियासङ्ख्या कालस्तस्य तु मानतः ।
इति ज्योतिशास्त्रे परिस्पन्दसंततेरेव कालत्वाभिधानात् तद्विरुद्धोक्ति-
र्विरुद्धेत्यत आह---- एकाश्रयेति । एकः तपनादिः । तत्क्रियासङ्ख्या
कालोपाधिरित्यर्थः । नन्वेवं परिणामाद्युपाध्यङ्गीकारविरोध इत्यत्राह -
सर्वेषामिति । ननु क्रियासंख्यैव कालोऽस्तु किमर्थं तदुपाधित्वमङ्गीकर-