This page has not been fully proofread.

सरः] परिणामपक्षे मासादिस्वरूपोपपत्तिः पक्षद्वयलौल्यं च दिगम्बरदूषणं च 633
 
सर्वार्थसिद्धिः
 
कालमात्रेण संबन्धे तद्विशेषकत्वायोगात् । तदंशेन संबन्धे तु
स्वत एव कालांशभेदसिद्धेः । ननु कालविकारेष्वपि कृत्स्नैकदेश-
संबन्धविकल्पदोपस्समानः । विकारान्तरेण भेदेऽनवस्थाप्रसङ्ग-
श्चेति चेन्न ; आश्रयैकदेशवृत्तिगुणादिन्यायेन निर्वाहादिति । अयं
परिहार उपाधिसंबन्धमात्रपक्षेऽप्यविशिष्ट इत्यन्ये मन्यन्ते ।
स्पन्दसंततिसिद्ध्यर्थं कालस्याणुत्वकल्पनम् ।
आशावसानतोकानां दुराशामात्रजृम्भितम् ॥
आनन्ददायिनी
 
माणाद्यवच्छिन्नघटस्येव भेदो न स्यादित्यर्थः । स्वत एवेति -- स्वतोंऽशा-
भावे औपाधिकस्याप्यसम्भवादिति भावः । नन्विति - उपाधिपक्ष एव
ज्यायानित्यर्थः । आश्रयैकदेशेति ——— स्वपरनिर्वाहकतया कालभेदकत्व-
मिति भावः । ननु परिणामपक्षे क्षणपरिणामस्य क्षणिकत्वावश्यम्भावात्
क्षणिकत्वानुमाने(साध्याप्रसिद्ध्या) व्याप्यत्वासिद्धयुद्भावनं न स्यात् ।
नचोपाधिपक्षेऽप्ययं दोषः ! क्षणोपाधीनां क्षणिकत्वाभावस्योपपादि-
तत्वादित्यस्वरसादुपाधिपक्षमुपक्षिपति --- अयं परिहार इति । कालसम्ब-
न्धप्रकर्षः परत्वम् । तन्नयूनत्वमपरत्वम् । सम्बन्धश्च संयोगः । स च
। । ।
क्रियाधीनः । क्रिया च विभुत्वेऽनुपपन्ना । तथाच न तन्निबन्धन-
संयोगादिसम्भवः । न च कालस्य निष्क्रियत्वे (यस्या) प्यन्यस्य परिच्छि-
न्नत्वात् तत्क्रियातस्संयोग इति वाच्यम्; तथाऽपि प्रथमसंयोगानन्तरं
निष्क्रियस्य स्थिरस्य तत्प्रकर्षायोगात् । विभुनश्च द्रव्यस्य संयोगमात्र-
स्याभावात् । तथाच परत्वादेरसम्भवप्रसङ्गात् । अणुः कालः स्पन्द-
संततिसिद्ध्यर्थमङ्गीकरणीय इति जैनपक्षमनुभाषते --स्पन्देति । स्पन्द-
संततिः --- परत्वापरत्वहेतुक्रियासंततिः । आशावसानाः - दिगम्बराः ।