This page has not been fully proofread.

632
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[जडद्रव्य
 
सर्वार्थसिद्धिः
 
णामः । तत्संख्याप्रकर्षतारतम्यान्मुहूर्तादिविभागः । अत (तत) एव
चाब्दादीनामाद्यन्तमध्यमाद्युत्पत्तिक्षणविकल्पचोद्यं निस्तीर्णम् ।
प्रतिपुरुषमिष्टक्षणारम्भेणाब्दादिगणनापि युक्तैव । अत्र च स्वतः
क्षणादिभेदानभ्युपगमे कथमुपाधिभिरपि भेदस्स्यात् ? तेषां
आनन्ददायिनी
 
संवत्सरादिव्यवहारश्च तत्तत्संख्याप्रकर्षतारतम्याद्युज्यत इति भावः ।
एतेन अब्दादिपरिणामो द्वादशमासादिपरिणामव्यापकः किमादिमास-
प्रथमदिवस उत्पद्यते ? उत मध्यमासमध्यदिवसे ? यद्वा अन्त्यमासान्त्य-
दिवसे ? नाद्यः ; आदावेवोत्पन्नत्वे तस्मिन्नेव दिवसे मासादिषु संवत्सर-
व्यवहारप्रसङ्गः । किं च क्षणे संवत्सरादिपरिणामो वर्तते न वा ?
तत्र वृत्तौ क्षण एवं संवत्सरस्स्यात् । तत्रावृत्तौ ततोऽतिरिक्तकाले
संवत्सरव्यवहारो न स्यात् । न च तदोत्पन्नसंवत्सररूपपरिणामो द्वाद-
शमासपर्यन्तस्थायी(ति)तावता परिसमाप्यत इति नैकदिवसादौ व्यवहार-
प्रसङ्ग इति वाच्यम् ; तथात्वे व्यासज्यवृत्तिता स्यात् । तथाच ताव-
दिवसानामभावात् केवलकालमात्रप्रतीतिर्न स्यात् । न च पूर्व (पूर्व )
दिवसानुसन्धानपूर्वकान्त्यदिवसप्रतीतिकाले प्रतीयत इति वाच्यम् ;
तथात्वे तावद्दिवस परिणामस्यैव संवत्सरत्वोपपत्तौ तदतिरिक्तपरिणाम-
कल्पने प्रमाणाभावात् । अत एव न द्वितीयतृतीयावपीति संवत्सराद्यु-
त्पत्तिरनुपपन्नेति शङ्कापि निरस्तेत्याह – अत एवेति । क्षणसङ्ख्याप्रकर्ष-
विशेषस्यैवाब्दादित्वादित्यर्थः । क्षणपरिणामे सर्वप्रत्ययं प्रमाणयति-
प्रतिपुरुषमिति । इष्टः - प्रमाणेनाभ्युपगतः । ननु क्षणादिप्रतीतिरप्यु-
पाधिभिरस्तु किंपरिणामेनेत्यत आह---अत्र चेत्यादि । तदेवोपपादयति-
तेषामिति । तथाच कालमात्रस्य क्षणोपाध्यवच्छिन्नत्वात् सङ्ख्यापरि-
 
-