2025-01-21 07:50:42 by ambuda-bot
This page has not been fully proofread.
सरः ] कालोपश्लिष्टवर्तमानत्वनिगमनं कालस्य क्षणादिरूपत्वे पक्षभेदश्च 631
तत्वमुक्ताकलापः
कालस्योपाधिभेदात् कतिचिदभिदधत्यब्दमा-
सादिभेदं तत्तद्रूपेण कालः परिणमत इति प्राहु-
सर्वार्थसिद्धिः
रूपत्वम् ? इत्यत्र प्रसिद्ध पक्षमाह — कालस्येति । आदिशब्देन
भूतभविष्यत्वादेरपि संग्रहः । नित्यस्यापि कालस्य द्रव्यान्त-
राणामिवावस्थाभेदैस्सर्वं स्यात् ;
-
अवस्थाचात्रोपाधिसंबन्ध-
मात्ररूपा इति लघीयान् पक्षः । पक्षान्तरमाह – तत्तद्रूपेणेति ।
यादवप्रकाशैरभ्युपगतोऽयं पक्ष: । 'कालोऽनाद्यनन्तोऽजस्रपरि-
णामी मुहूर्ताहोरात्रादिविभागयुक् सर्वेषां परिणामस्पन्दहेतुः '
इति वचनात् । अयं भावः - क्षणरूप एव कालस्य सर्वदा परि-
आनन्ददायिनी
परिच्छेदः न तु देशपरिच्छेद इति भावः । प्रसिद्धमिति——उपाधि-
परिच्छेदस्य काणादादितन्त्रसिद्धत्वादिति भावः । आदिशब्देन वर्त-
मानत्वादिसंग्रहः । द्रव्यान्तराणामिवेति । तन्त्वादीनां पटाद्यवस्थाभेदे-
नेवेत्यर्थः । लघीयान् पक्ष इति - अतिरिक्तपरिणामपक्षेऽप्यावश्यकत्वा-
लघुतरत्वमस्येति भावः । यादवप्रकाशवचनमुदाहरति-- कालोऽनाद्य-
नन्त इतीति केचित् । श्रुतिवाक्यमित्यन्ये । परिणामपक्षे क्षणलवादि-
व्यापिपरिणामो न स्यात् । युगपत्परिणामद्वयस्य विरुद्धत्वात् । न
चेष्टापत्तिः । संवत्सरादिपरिणामकाले क्षणादिपरिणामाभावेन तद्व्यवहारा-
भावप्रसङ्गादित्यत्राह--अयं भाव इति । क्षणरूप एवेति – तथा च
परिणामान्तरस्यानभ्युपगमात् क्षणादिव्यवहारविरोधोऽपि नास्ति मास-