2025-01-21 07:35:16 by ambuda-bot
This page has not been fully proofread.
आचार्यावतारकालदेशौ
अस्य श्रीमतो वेङ्कटनाथगुरोः जगतीतलालङ्करणसमय:-
अब्दे सौम्ये च वारे गतवति तरणौ वृश्चिकं कृत्तिकर्क्षे
राकायां वेङ्कटेशो यतिनृपतिमतं सर्वतः स्थापयित्वा ।
वेदान्ताचार्यनामा विरचितविविधानेकदिव्यप्रबन्धः
श्रीशैलाधीशघण्टा कृतिवपुरभवद्देशिकेन्द्रो दयालुः ॥
इत्याचार्यचरमश्लोकावगतः कैस्ताब्दानां १२७० - १३७२तमसंवत्स-
रान्त इति न्यायपरिशुद्धयुपद्धाते श्रीमन्तः शतावधानं श्रीनिवासाचार्याः ।
१२६८-१३६९तमसंवत्सरयोर्मध्यकाल इति पादुकासहस्रोपोद्धाते
श्रीशैलताताचार्याः । आचार्यचरमश्लोकनिर्दिष्टस्य कालस्याधुनिकगणि-
ताभिज्ञनिरूपणसंवादितयामेव निर्णय उचित इति पश्यामः । अनुसन्द-
धते तु शिष्टाः-
श्रीधी योग्ये शके शुक्ले उदभूद्वेङ्कटेश्वरः ।
लब्धप्राये शके सौम्ये प्रयातः परमं पदम् ॥
इति ॥ तिथिवारनक्षत्रयोगविसंवादादत्र शुक्ले इति गतसंवत्सरनिर्देशं
भावयामः
श्रीमान् वेङ्कटनाथगुरुः श्रीकाञ्चीनगरसन्निहितेन तूप्पुल् नाम्ना
अग्रहारेण स्वावतारपरिभूषितेन धरणीमण्डलं मण्डयितुमारभत ॥
अप्राप्तपञ्चमवयसा चानेन महानुभावेन बहुश्रुतदुष्परिज्ञानेष्वप्य-
र्थेषु क्रियमाणं धीप्रचारं केनाप्यतिकुतूहलावहेन भगवत्प्रसादेनेति
निश्चिन्वता वात्स्यवरदगुरुणा सबहुमानप्रसादम् -
प्रतिष्ठापितवेदान्तः परिक्षिप्तबहिर्मतः ।
भूयास्त्रैविद्यमान्यस्त्वं भूरिकल्याणभाजनम् ॥