This page has not been fully proofread.

सरः]
 
परोक्तवर्तमानत्वपरिष्करणं कालानपेक्षवर्तमानत्वनिरासः 629
 
सर्वार्थसिद्धिः
 
तत्रापि क्षणभेदेन नष्टत्वादिविकल्पतः ।
वैवक्षिकमिहान्यश्च वर्तमानत्वमक्षतम् ॥
 
ननु सतो विनाशप्रागभाव एव वर्तमानत्वम् । तद्विशिष्टेषु पदार्थेषु
दृश्यमानेषु किं सतो वाऽसतो वाकालस्य दृश्यमानतया ?
मैवम् ; कालासत्त्वपक्षस्य निरस्तत्वात् । तत्सत्त्वे तु तत्साध्यानां
पूर्वापरयुगपदादिव्यवहारविशेषाणां तत्प्रतीतिपूर्वकत्वस्य स्वर-
सप्राप्तत्वात् । किंच अत्र सत इति वर्तमानत्वविवक्षायां किं
 
आनन्ददायिनी
 
त्वदुक्तस्य संभव इति भावः । इदं च शब्दसाधुत्वनिमित्तं वर्तमानत्वं
शाब्दैर्विवक्षितमिति न तस्यातीतादिसाधारणस्य प्रत्यक्षविषयतासंभव
इत्याह- —वैवक्षिकमिति । अन्यथा अतीतागामित्वाविशेषात् भूतभावि-
समस्तस्यापि तथा धीप्रसङ्ग इति प्रागुक्तदोषानतिवृत्तिरिति भावः ।
ननु सतो विनाशप्रागभाववत्ता ( वत्तया ) वर्तमानता । तद्रूपेणैव प्रत्यक्ष-
विषयत्वात् ! तदतिरिक्तस्य (कालस्य) विषयत्वाभावात्त (वात्काल) स्य
सत्त्वमस्तु मा वा किं (मावा क्रिया) प्रत्यक्षत्वं साध्यते ? इति शङ्कते —
नन्विति । मैवमिति किं कालमात्रस्यापह्नवः ? उत वर्तमानकालस्येति
विकल्पमभिप्रेत्य आद्य आह - काला सत्त्वपक्षस्येति । कालाभावे भूता-
दिव्यवहारो न स्यादिति प्रागेव निरस्तत्वादित्यर्थः । तत्सत्त्वे त्विति —
तत एव सर्वव्यवहारस्य स्वरसतस्सिद्धत्वेन क्लिष्टकल्पनाया अन्याय्य-
त्वादिति भावः । द्वितयं दूषयति — किञ्चेति । तत्र किं सत इति
वर्तमानत्वं विवक्षितम् ? उत प्रमाणसिद्धपदार्थस्वरूपमात्रत्वम् ? आद्ये
आह----अत्र सत इति । तथा च विनाशप्रागभावोपश्लेषो व्यर्थः
 
--
 
1