This page has not been fully proofread.

628
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
सर्वार्थसिद्धिः
 
अतीतागामिधीरेव वर्तमानमतिर्यदि ।
 
भूतभाविसमस्ताप्तया न शोकादिसमुद्भवः ॥
पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि ।
 
त्रिकालस्थेऽपि तत्सिद्धेः क्वार्ततागामिता भवेत् ॥
प्रारब्धश्वासमाप्तश्च वर्तमानो य उच्यते ।
व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥
 
आनन्ददायिनी
 
[जडद्रव्य
 
अतीतेति । पौर्वापर्यं नाम अतीतागामित्वमेव । तद्भिय एव वर्तमान-
बुद्धित्वे भूतभविष्यत्सर्ववस्तूनामप्यवाधितवर्तमानविषयत्वेन सर्वस्वस्त्री-
पुत्रादीनामतीतानामागामिनामपि वर्तमानबुद्ध्या तदत्ययप्राप्तिनिमित्त-
कश्शोकः कस्यापि न स्यादित्यर्थः । ननु पूर्वत्वापरत्वयोस्समाहारो
वर्तमानत्वं न तु पूर्वत्वपश्चात्त्वमात्रम् । तथा च अतीतस्य केवलं
पूर्वत्वादागामिनश्चागामित्वान्न दोष इत्यत्राह - पूर्वापरत्वसंभेदे इति ।
तथाच सति सर्वस्यापि किञ्चिदपेक्षया पूर्वत्वात्परत्वाच्च तत्संभेदस्य
सर्वत्रापि सत्त्वेन अतीतादेरपि वर्तमानत्वप्रसङ्गस्तदवस्थः । ननु पूर्वा-
परत्वसंभेदो न यत्किंचिदपेक्षया किं तु स्वापेक्षयैव विवक्षितः । स एव
वर्तमानता । प्रारब्धापरिसमाप्त इति शाब्दैश्वोक्तः । अतो नातिप्रसङ्ग
इत्यत्राह —प्रारब्धश्चेति । तत्र दूषणं वक्तुं शाब्दोक्तं तत्स्वरूपमाह -
व्यापारसमुदाय इति । तत्रापि नैकस्य प्रारब्धत्वमसमाप्तत्वं च । अपि
त्वेकफलावच्छिन्नस्य कस्यचिद्व्यापारसमुदायस्य । तत्र कस्यचिद्भुतत्वं
कस्यचिद्भावित्वमेव । तथाच फलोत्पत्तिपर्यन्तस्य समुदायस्य तदवयव -
भूतत्वभावित्वाभ्यामुपचारात्प्रारब्धापरिसमाप्तत्वमुच्यत इति न कुत्रापि