This page has not been fully proofread.

सर:
 
काले वर्तमानत्वसमर्थनं वर्तमानाकलापदूषणं च
 
627
 
सर्वार्थसिद्धिः
 
ननु रूपादीनां वर्तमानकालसंबन्धो वर्तमानत्वम् ! नासौ कालस्य
स्यात् ; मैवम् — त्वयैव कालस्य वर्तमानत्वेन रूपादिवर्तमानत्व-
निर्वाहात् ।
 
वर्तमाननिषेधे च भवित्री विश्वनिहुतिः ।
 
नातीतं भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥
वर्तमान भ्रमात्र तत एव न सिध्यति ।
पौर्वापर्यातिरिक्ता तु दुस्त्यजा वर्तमानता ॥
आनन्ददायिनी
 
1
 
;
 
रूपादाविव काले वर्तमानत्वं युक्तमित्यर्थः । नन्वस्तु कालः स्थिरः
क्षणिको वा ! तावतापि न रूपादिवद्वर्तमानता संभवति वर्तमानत्वं हि वर्त-
मानकालसंयोगित्वम् । न च वर्तमानकाले वर्तमानकालसंबन्धः ! स्वस्य
स्वेन योगासंभवात् ; नापि कालान्तरेप अनवस्थाप्रसङ्गादिति शङ्कते -
नन्विति । मैवमिति -- रूपादीनां वर्तमानत्वं न कालसंबन्धमात्रे भाति
अतीतादेरपि वर्तमानत्वप्रसङ्गात् । किं तु वर्तमानकालसंबन्धेन ; तथाच
कालस्य वर्तमानत्वं सिद्धम् । न चानवस्थादिदोषः स्वपरनिर्वाहकत्वादिति
भावः । ननु रूपादीनामपि वर्तमानता मा भूत् ! का नो हानिः ? इत्यत्राह-
वर्तमाननिषेधे इति । तत्र हेतुमाह--अतीतमिति । सर्वस्यापि वर्त -
मानतया प्रत्यक्षप्रतीतेरित्यर्थः । नन्वतीतादिकमेव प्रत्यक्षविषयः ।
तत्र वर्तमानतया भ्रान्तिरेवेत्यत्राह - वर्तमानभ्रमश्चेति । अप्रसिद्ध-
वर्तमानत्वस्याभावादेवेत्यर्थ इत्यन्ये । केचित्तु – अतीतानागतयोरिन्द्रि-
यसन्निकर्षाभावेन अप्रत्यक्षत्वादेव वर्तमानतया भ्रमश्च न संभवतीत्यर्थ
इत्याहुः । ननु पौर्वापर्यमेव क्षणानां वर्तमानता ; तदुभयसमुदायस्य
न समुदायापेक्षयाऽन्यत्वामित्यत्राह – पौर्वापर्येति । अत्र हेतुमाह-
 
40*