2025-01-21 07:50:41 by ambuda-bot
This page has not been fully proofread.
626
सव्याख्यसर्वार्थसिद्धिसहिततत्व मुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः
न तृतीयः; क्वचित्सिद्धस्यैवान्यत्र कल्प्यत्वात् तथा च
तत्सिध्येत् । रूपादिषु दृष्टं वर्तमानत्वं काले कल्प्यतामिति चेन्न ;
क्षणिकरूपादिसंततावपि पूर्वापरातिरिक्तवर्तमानत्वस्य त्वया दुर्व-
चत्वात् । अन्यथा कालेऽपि तदुपपत्तेः । कालमनिच्छतश्च ते
काले कथं कल्पना ? निरधिष्ठानासौ कल्पनेति चेन्न ; ईदृश-
कल्पनाभ्युपगमे मध्यमा (माध्यामिका) गमप्रवेशप्रसङ्गात् । स्थिर-
वादे तु रूपादिष्विव केनचिद्रूपेण कालेऽपि वर्तमानत्वं सिद्धम् ।
आनन्ददायिनी
विषयेति । स्वविषयधीरात्मा ; आत्मातिरिक्तधीमात्रस्य निर्विषयत्वा-
नभ्युपगमात् ; अन्यथा विश्वमात्रस्य निह्नवप्रसङ्गादिति भावः । केचित्तु-
सविषयकत्वाद्धियां त्वदनभ्युपगमाच्चेति पाठान्तरम् तदा सविषयत्व-
नियमात् त्वन्मतविरोधाच्चेत्यर्थ इत्याहुः । क्वचिदिति – अन्यत्र सिद्ध-
रजतादेश्शुक्तावारोपदर्शनादित्यर्थः । तथाचेति - वर्तमानकालस्सिद्धये-
दित्यर्थः । ननु वर्तमानत्वं न कालस्वरूपं किं तु रूपादिवत् कश्चि-
द्धर्मः । स काले आरोप्यताम् ! तावता न वर्तमानकालसिद्धिरिति
शङ्कते – रूपादिष्विति । क्षणिकेति केषां चित् क्षणानां पूर्वत्वात्
केषाञ्चिद्रपादिक्षणानां परत्वात् न रूपादावपि वर्तमानता संभवती-
त्यर्थः । अन्यथेति – रूपादिक्षणा (ण) विशेषादित्यर्थः । कालमनिच्छत
इति-रूपादिक्षणातिरेकेण तैः कालक्षणानभ्युपगमादित्यर्थः । मध्यमा-
गमेति–माध्यमिकमतप्रवेशप्रसङ्ग इत्यर्थः । ननु सर्वत्र वर्तमानत्वं मा_
भून्नाम ! तथा कालस्यापि क्षणिकत्वात् पूर्वापरकालव्यतिरिक्तः कालो
न स्यादित्यत्राह —— स्थिरवादे इति । सर्वस्यापि स्थिरत्वस्य साधितत्वेन
-