This page has not been fully proofread.

सरः ] कालस्यानुमेयत्वे दोषः - प्रत्यक्षासंभवशङ्का-वर्तमानधीसमर्थनं च 625
 
तत्वमुक्ताकलापः
 
नो चेन्न क्वापि लोकव्यवहूतिविषयोऽव्यक्तवत्स्याद-
 
नेहा ॥ ६८ ॥
 
;
 
सर्वार्थसिद्धिः
 
निष्टं प्रसञ्जयति-नाचेदिति । न हि परत्वापरत्वादिभिः कश्चित् का-
लोऽस्तीत्यनुमाय तद्विशिष्टतया पदार्थान् व्यवहरन्ति लौकिकाः !
अतःकालोप्यव्यक्तवत् शास्त्रकवेद्य इति तद्वदेव लोकव्यवहारविषयो
न स्यादित्यर्थः। नन्वस्मदादिप्रत्यक्षमप्रत्यभिज्ञारूपं वर्तमानमात्र-
विषयमिति सर्वसंमतम् ; अतोऽस्य पूर्वापरकालविशिष्टविषयत्व-
मसंभवि पूर्वापरव्यतिरिक्तं तु वर्तमानं न पश्यामः । अतः
कथं कालप्रत्यक्षत्वम् ? इत्थम् ; किं भवान् वर्तमानाधियमेव नानु-
भवति ? सतीमपि वा निर्विषयाम् ? सविषयामपि वा कल्पित-
विषयाम् ? न प्रथमः ; इदं पश्यामीत्यादिव्यवहारोच्छेदग्रस-
ङ्गात् । अत एव न द्वितीयः ; अस्वविषयधियां त्वनभ्युपगमाच्च ।
आनन्ददायिनी
 
-
 
प्रतिसन्धानाभावात्तद्व्याप्तिग्रहा संभवादित्यर्थः । बौद्धश्शङ्कते - नन्विति ।
अतोऽस्येति पूर्वापरयोस्तदा सत्त्वाभावे सन्निकर्षाभावादिति भावः ।
नन्वस्तु वर्तमानस्य कालस्य प्रत्यक्षत्वमित्यभिप्रायेणाह --- पूर्वापरव्यति-
रिक्तं त्विति । ग्रहणक्षणावधिकस्य पूर्वत्वादागामित्वाच्च ततोऽति-
रिक्तस्य मध्यवर्तिनः कालस्याभावादित्यर्थः । वर्तमानधियमिति -- वर्त-
मानकालविशिष्टविषयामित्यर्थः । अत एवेति - इदं पश्यामीति काल-
विशिष्टस्य धीविषयत्वानुभवविरोधादेवेत्यर्थः । दूषणान्तरमाह — अस्व-
 
SARVARTHA.
 
A
 
40