2025-01-21 07:50:39 by ambuda-bot
This page has not been fully proofread.
624
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो
सर्वार्थसिद्धिः
कन्यादानुमानिकत्वं प्रसज्यत इति भावः । नचासावनुमातुं
शक्य इत्याह — तत्संयोगा इति । कालमनभ्युपगच्छतां बुद्धि-
विशेषसंघटितसूर्यावृत्त्याद्युपाधिभिरेव वैशिष्ट्यं वस्तूनां परत्वादि ;
अभ्युपगच्छतां तु तत्तदुपहितकालसंयोगाः । न च तदतिरिक्तं
दृष्टं कल्प्यं वा ! इत्यद्रव्यसरे स्थापयिष्यते । कालस्यानुमेयत्वेऽ-
आनन्ददायिनी
मात्रेऽपि) काले विशेषरूपोपाध्यग्रहणात् घटादेर्वर्तमानतया सन्देहस्स्यात् ।
तथा प्रत्यभिज्ञासामग्रयपि पूर्वसंस्कारसहिता प्रागनुभूतमासादिकालो-
पाधिरूपतपनपरिस्पन्दादिकमप्यसन्निकृष्टमावेदयति । तस्यास्तथास्वभा-
वात् । न चातिप्रसङ्गः ; प्राक्तनानुभवक्षणावधिकस्वक्षणपर्यन्तकालो-
पाध्युपनायकत्वे तदभावात् । अत एव सन्निकर्षाभावादित्याद्यपास्तम् ।
न चानुमानात्काल (नात्तादृशकाल ) धीः । तस्य प्रत्यक्षागोचरत्वे सामा-
न्यतो विशेषतो वा व्याप्तयग्राहकत्वात् । त ( अ )थाप्यनुमाने पदार्थ -
मात्र एव तथाऽनुमानसंभवेन सौत्रान्तिकमतावतारप्रसङ्ग इति न
तदुपहितकालप्रत्यक्षत्वानुपपत्तिरिति । तत्र हेतुमाह - न चेति । तथा-
चोपाधिसंयोगाद्यतिरिक्तं तज्जन्यं वा परत्वं न दृष्टं न कल्प्यं
च कल्पकाभावात् । तथाच कालानुमानं न संभवतीत्यर्थः ।
परत्वापरत्वयोरतिरिक्तगुणत्वात् कथं तयोरुपाध्यादियोगमात्रत्वमित्य-
त्राह - अद्रव्यसरे इति । लोकव्यवहारविषयो न स्यादिति--लिङ्ग-