2025-01-21 07:50:39 by ambuda-bot
This page has not been fully proofread.
सरः]
कालप्रत्यक्षत्वोपपत्तिः
तत्वमुक्ताकलापः
623
क्षणलवदिवसाद्यंशतोऽर्थान् विशिषन् साक्षाद्धी-
स्तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि ।
सर्वार्थसिद्धिः
अवसीयमानप्रकारमाह-क्षणेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण
तत्तदर्थविशेषणतयाऽवसीयत इति यावत् । अभिज्ञायां क्षणरूपेण
प्रत्यभिज्ञायां दिवसादिरूपेण चेति विभागः । अनुमीयमानो
विशिष्यादित्यत्राह — साक्षादिति । प्रत्यक्षप्रतीतौ विशेषणतया
दृश्यमानस्य कालस्यानुमेयत्वे तत्तत्पदार्थानामपि सौत्रान्तिको -
आनन्ददायिनी
क्षणस्य प्रत्यक्षत्वमस्ति अयं घट इति ; तथापि दिवसादीनां (दीना-
मपि ) न पदार्थविशेषणतया प्रत्यक्षत्वमित्यत्राह – अभिज्ञायां क्षण-
रूपेणेति । सोऽयमिति प्रत्यभिज्ञायां पूर्वदिवसेऽनुभूतोऽयमित्यादिना
विशेषणत्वादित्यर्थः । प्रत्यक्षप्रतीताविति — ननु दिवसादीनामतीतानां
संस्कारसन्निधापितानां प्रत्यक्षत्वं वाच्यम्; न च दिवसादयः प्राग-
भिज्ञयाऽनुभूताः ! तथात्वेऽभिज्ञायामित्याद्युक्तिविरोधात् । किञ्च दिवसादि-
कालस्य प्रत्यक्षत्वेऽपि न दिवसाद्युपाधीनां प्रत्यक्षत्वम् ;
तेषां तपना-
वृत्त्याद्यात्मनां युगपत्सन्निकर्षाभावेन प्रत्यक्षत्वाभावात् । अतोऽनुमेय-
स्यैव कालस्य विशेषणत्वमिति चेत्; अत्राहुः --- कालस्वरूपं प्रत्यक्ष-
मित्यत्र न विवादः । यथा प्रत्यक्षसामग्री वर्तमानकालं (कालस्वरूपं )
गृह्णाति तथा तदुपाधिमपि ; अन्यथा कालसम्बन्धमात्रग्रहेऽपि ( ग्रह-