This page has not been fully proofread.

622
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
जडद्रव्य
 
तत्वमुक्ताकलापः
 
कालोsध्यक्षावसेयः
 
सर्वार्थसिद्धिः
 
पूर्वं परं च कालो नास्तीति वचनस्य बाध इत्यर्थः । अथवा
पूर्वापरकालविरोधः । प्रलयादिकालमनूद्य हि प्रकृतिविकारास्सर्वे
सृष्टिवाक्येषु प्रतिपाद्यन्ते ॥
 
कालोपश्लिष्टवेषेण ह्यभूदस्ति भविष्यतीन् ।
प्रयुञ्जतेऽर्थभेदेषु सदा चास्तिमनेहसः ॥ ६७ ॥
कालोत्पत्तिवादनिरासः.
 
नीरूप ( द्रव्य) स्यापि प्रत्यक्षत्वसंभवः प्रागेव साधित इति
कृत्वा कालप्रत्यक्षत्वं लोकोपलब्ध्या नियमयति — काल इति ।
आनन्ददायिनी
 
निर्वाहणीयास्तथेत्यर्थः । यद्यप्यत्र स्वारसिकार्थे बाधाभावादभिमानि
देवतोपाध्युत्पत्त्या निर्वाहो न शक्य इति न्यायसिद्धाज्ञ्जनविरोध इव ;
तथाऽपि अत्र मायिवत् स्वरूपेणोत्पत्तिर्निषिध्यते न तु कला मुहूर्तादिरूपेण
परिणाम इति न विरोध इति ध्येयम् । पूर्वापरेत्यस्य तद्गन्थपूर्वापरवाक्य-
परत्वे स्वारस्यादाह——अथवेति । तथाच यथाश्रुतस्वीकारे विरोध इति
भावः । ननु कालस्यानुत्पत्तिविनाशत्वे अभूदस्ति भविष्यतीति काले
अतीतत्वादिव्यवहारः कथं स्यादित्यत्राह - कालोपश्लिष्टवेषेणेति । कालो-
पश्लिष्टवेशेण पदर्थानामेवात्ययादिविषयता न कालस्य ; स तु पदार्थात्य-
यादिष्वपि स (सन्नेव) हैव व्यवह्रियते इत्यर्थः ॥ ६७॥
 
कालोत्पत्तिवादनिरासः
 
कालसद्भावे प्रत्यक्षमपि प्रमाणमित्याह — नीरूपस्येति । यद्यपि