2025-01-21 07:50:39 by ambuda-bot
This page has not been fully proofread.
सरः]
कालस्योत्पत्तिवादः तन्निरासश्च
621
तत्वमुक्ताकलापः
यदि तत्को वदेत्काल सृष्टिम् ? । आप्तस्तत्सृष्टिवाद-
स्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यात् नो चेत् त-
त्रापि पूर्वापरवचनहतिर्दुर्निवारप्रसङ्गा ॥ ६७ ॥
सर्वार्थसिद्धिः
तीति नास्माभिरुत्तरं देयम् । अथ पार्श्वस्थो यदि कश्चिद्रवीति ;
तस्याप्युक्तदोपस्सम इत्यभिप्रायेणाह — तत्को वदेदिति । 'सदेव
सोम्येदमग्र आसीत्, 'नासदासीनो सदासीत्तदानीम्' इत्यादि-
श्रुतिविरोधश्चात्राभिप्रेतः । ' विद्याकालौ भवत्कृतौ' इत्यादिषु
कालोत्पत्तिवचनं कथमित्यत्राह - आप्त इति । आप्तवाक्यस्थ
इत्यर्थः । यथा निमेषादिसंवत्सरान्तजनिश्रुतिः पक्षमासादिष्वा -
गमापायिताप्रत्याख्यातिश्च उपाधीनां तत्संयोगादिपरिणतीनां
तदभिमानिदेवतानां वा सृष्टया अर्थवती तथाऽसावित्यर्थः ।
अन्यथा तत्रापि विरोधमाह - नो चेदिति । पूर्वापरवचनहतिः-
आनन्ददायिनी
मत्वाऽऽह — अथ पार्श्वस्थ इति । श्रुतिविरोधश्चेति - सदेव सौम्य' इत्यत्र
'तम आसीत्' इत्यादौ च अग्रशब्दस्य सृष्टिप्राक्कालवाचित्वेन तेन विरोधः ।
नासदासीदित्यादौ तदानीमित्यनेन विरोध इत्यर्थः । यथेति—
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च
सर्वशः । अहोरात्रे मासाश्च संवत्सरा अजायन्त' इत्यादिश्रुतयः । पक्षो
गतः मासो गतः आगतश्चेत्यादिलौकिकव्यवहाराश्च । कालोत्पत्तिवादि -
नाऽपि सृष्टिप्रलयमध्ये कालस्यैकत्वेऽपि तदुपाध्यादिकमादाय यथा