2025-01-21 07:50:37 by ambuda-bot
This page has not been fully proofread.
620
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः
कालस्योत्पत्तितः प्राक् परमपि च लयात्
कालनास्तित्ववादी स्वोक्तिव्याघातभग्नो न वदति
सर्वार्थसिद्धिः
ये तु महदादिवत् कालतत्वमुत्पत्तिनाशवदिति तन्त्रानु-
सारिणो वदन्ति ; तान् प्रतिक्षिपति — कालस्येति । उत्पत्तेः
पूर्वं नाशतः पश्चाच्च कालो नास्तीति वदन् किं तत्र पूर्वशब्दस्य
पश्चाच्छब्दस्य च निरर्थकत्वं मन्यते सार्थकत्वं वा ? पूर्वत्र
निरर्थकनिग्रहस्थानापत्तिः । उत्तरत्र कालस्यैव तदर्थत्वात् तत्र
कालनिषेधे स्ववचनविरोधः । अथ काले कालो नास्तीत्यविरोधं
मन्येत तर्हि सृष्टिप्रलयमध्यकालेऽपि कालाभावात् तत्रापि काल-
नास्तितां ब्रूयादिति कथं कालसिद्धि: ? गत्यभावान्मौनमाश्रित्य
यः पूर्वं पश्चाच्च नास्तीति न ब्रूयात्; तदाऽस्मन्मतं न निषेध -
आनन्ददायिनी
प्रसङ्गसंगतिमाह – ये तु महदादिवदिति । तत्रान्तरानुसारिणः-
योगमतानुसारिणः । कालस्यैव तदर्थत्वादिति – पूर्वपश्चाच्छब्दार्थतया
काल (र्थत्वातदर्थ) मभ्युपगम्य तत्र तन्निषे (धे) घव्याघात इति भावः । अथेति-
अभेदे आधाराधेयभावाभावात् काले स्वस्य वृत्त्यभावात् घटे घटनिषेध-
वदविरोध इति भावः । सृष्टिप्रलयमध्ये इति – तथाच कालतत्वमेव न
स्यात् सर्वदा तस्यासत्त्वादित्यर्थः । गत्यभावादिति —— व्याघातस्य परि-
हाराभावादित्यर्थः । तदेति — कालस्य निषेधासम्भवान्नासौ बाघ इति
भावः । को वदेदित्यस्य प्रकृतवादिपरत्वे निर्धारणार्थकिंशब्दानुपपत्तिं