2025-01-21 07:50:37 by ambuda-bot
This page has not been fully proofread.
सरः ]
कालातिरेकबाधकं तन्निरासश्च
619
तत्वमक्ताकलापः
समुदितः संप्रतीते तु भेदे साधर्म्यं नैक्यहेतुः स हि
तदितरवद्घोषितस्तद्विभूतिः ॥ ६६ ॥
सर्वार्थसिद्धिः
प्रश्नसंघटनाच्च । सर्वकार्यहेतुत्वनित्यत्वविभुत्वैः तदैक्यसाधनं
निरस्यति—संप्रतीते त्विति । वस्त्वन्तर इव भेदकण्ठोक्तिं
व्यनक्ति-स हीति । 'ब्रह्मा दक्षादयः कालः' इत्यादिभिरिति शेषः ।
विष्णुमन्वादयः कालः इत्यत्र विष्णुशब्दोऽवतारपरः । तस्य
तद्विभूतित्वं च तादृशरूपेण ॥ ६६ ॥
कालस्येश्वरैक्यशङ्कापरिहारः.
आनन्ददायिनी
माहुः । संकर्षणस्यैव रुद्राभिमानित्वाच्च । अभिमानिद्वारा सामानाधि-
करण्ये प्रश्नोपपत्तिः । कालः परमात्माभिन्नः सर्वकार्यहेतुत्वात् परमात्म-
वत् व्यतिरेकेण वटवच्च । नित्यत्वाद्विभुत्वाद्वेत्यादि परमात्माभेदसाधका-
न्यागमबाधितानीत्याह – सर्वकार्येति । नित्यत्वं विभुत्वं च जीवादौ
व्यभिचारीति ध्येयम् । ब्रह्मादक्षादय इति -- यद्यपि चेतनदेवताभिस्सह
पाठत् कालो यमोऽत्रेति वक्तुं शक्यम् ; तथाऽपि कालशब्दाभिधेयस्य
ततो भिन्नत्वं सिद्धम् । यमादीनां कालशब्दवाच्यत्वं च तदभिमानि -
तया । तथा च तस्य भेदे तदभिमा ( न्यस्य) नस्य सुतरां भेदस्सिध्यतीति
भावः। नन्वत्रापि कालशब्दः परब्रह्मपर एवास्तु न च विभुत्वानुपपत्तिः ;
विष्णुर्मन्वादय इत्यत्र विष्णुवदुपपत्तेरित्यत्राह - विष्णुर्मन्वादय इति ।
तादृशरूपेणेति — उपेन्द्राभिधानतादृशविग्रहरूपेणेत्यर्थः ॥ ६६ ॥
कालस्येश्वरैक्यशङ्कानिरासः