2025-01-21 07:50:37 by ambuda-bot
This page has not been fully proofread.
618
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
इत्याप्तवर्यो हेतुस्सर्वस्य नित्यो विभुरपि च परः
किं परेणेति चेन्न । कालान्तर्यामितादेस्स खलु
सर्वार्थसिद्धिः
सर्वव्यवहारसिद्धिमभिप्रेत्याह हेतुरिति । तदतिरिक्तकाल
कल्पनस्य निरर्थकत्वमाह — किं परेणेति । रूपान्तरमित्यत्र
क्लिष्टगतिरयुक्तेत्यभिप्रायेण प्रतिवक्ति नेति । कालेsपि
सामानाधिकरण्यं तत्तत्पदार्थान्तरेष्विव निर्वहतीत्याह - काला-
न्तर्यामितादेरिति । आदिशब्देन कालाभिमानिरूपसंग्रहः ।
सन्ति हि जीवमनोऽहङ्काराभिमाननियतानुबन्धानि संकर्षणादि-
रूपाणि ! तद्वदिहापि स्यात् । ' को भवानुग्ररूपः' इति
आनन्ददायिनी
किं परेणेति--परमात्मनः परेणातिरिक्तेन कालेनेत्यर्थः । क्लिष्टगतिरिति–
रूपान्तरमिति भेदकशब्दस्य कथञ्चिन्नयनमित्यर्थः । इदमुपलक्षणं
अन्तरशब्दवैयर्थ्य च । नन्वभेदसाधकप्रमाणसत्त्वे क्लिष्टगतिरपि युक्ते-
त्यत्राह — कालेऽपीति । तत्राश्वत्थाद्यचेतनसामानाधिकरण्यस्यापि प्रति-
पादनेन प्रकरणस्य विभूतिप्रतिपादनपरत्वेनाभेदप्रतिपादनपरत्वाभावा-
दित्यर्थः । काले कालशरीरकत्वेन सामानाधिकरण्यमुक्ता कालाभिमानि-
देवतात्वेनापि सामानाधिकरण्यमाह --- आदिशब्देनेति । जीवादीनां
संकर्षणप्रद्युम्नानिरुद्धादिरूपमभिमानि तद्वत्कालाभिमानि रूपान्तरमपि
संभवतीत्यर्थः । वस्तुतः (केचित्तु ) संकर्षणस्यैव कालाभिमानित्वमिति
(वदन्ति)भावः। संकर्षणस्यैव कालाभिमानित्वे हेतुमाह — को भवानिति ।
उग्ररूपः - तीक्ष्णरूप इत्यन्ये । केचित्तु उग्ररूपः
- क्रुद्धरूप इत्यर्थ_