This page has not been fully proofread.

सरः]
 
कालस्येश्वरातिरेकबाधकम्
 
तत्वभुक्ताकलापः
 
617
 
कालोऽस्मीति स्वगीता कथयति भगवान् काल
 
सर्वार्थसिद्धिः
 
अन्यथा शास्त्रैः स्वग्रन्थान्तरैः संप्रदायैश्च विरोधस्स्यादिति ॥६५
आकाशाद्यतिरिक्तकालसिद्धः
 
एवमपि कालस्य परमात्मव्यतिरिक्तत्वं न सिध्यति ;
रूपान्तरमिति स्वरूपविवक्षोपपत्तेः तत्स्वरूपैक्ये प्रमाणसद्भावाच्च
इत्यभिप्रायेणाह — काल इति । स्वशब्दोऽत्र परमात्मविषयः ।
गयिते हि 'कालोऽस्मि लोकक्षयकृत्प्रवृद्धः' इत्यादि ! तद्वत्
' अनादिर्भगवान् काल:' इति पराशरेणोक्तमपि ख्यापयति-
कथयतीति । आप्तवर्यत्वमस्य ' देवतापारमार्थ्यं च' इत्या-
दिभिस्सिद्धम् । नित्यविभुना परमात्मनैव त्रैकालिकसार्वत्रिक-
आनन्ददायिनी
 
पृथगस्तित्व नास्तित्वादयो न वक्तव्या इति भाष्येण कालासत्त्वप्रतीतेरिति
भावः । भाष्यस्य तात्पर्यवर्णनहेतुमाह-- अन्यथेति ॥ ६५ ॥
 
आकाशाद्यतिरिक्तकालासिद्धिः
 
आक्षेपसंगतिमाह ——— एवमपीति । रूपान्तरमिति यद्यप्यन्तरशब्दो
भेदकोऽस्ति ; विष्णो रूपमित्यादिषष्ठीवन्नेतुं शक्यमिति भावः । एवं
नयने हेतुमाह-- तत्स्वरूपैक्ये इति । कालोऽस्मीत्यादिप्रमाणसद्भा-
वादिति भावः । ' अनादिभेगवान्' इत्यत्र भगवान् —— परं ब्रह्म ।
सिद्धमिति – – विष्णुपुराण एवेत्यर्थः । ननु परमात्मव्यतिरिक्तका लाभावे
क्षणलवपरत्वादिव्यवहारः कथम् ? इत्यत्राह —— नित्यविभुनेति ।