This page has not been fully proofread.

सरः]
 
कालातिरेकबाधकादिः तन्निरासश्च
 
615
 
तत्वमुक्ताकलापः
 
कालतास्त्वम्बरादेः अन्यस्मिन्नन्यधर्मोपनयननि-
 
सर्वार्थसिद्धिः
 
तिरिक्तकल्पनया ? यद्यतिप्रसङ्गभयात् बुद्धिविशेषसंबन्धानादरेण
कालोऽन्यः कल्प्यते तथाऽप्यतिप्रसङ्गस्तदवस्थः । यथादर्शनं
व्यवस्था च समानेति भावः । कालता - परत्वादिनिर्वाहकते-
त्यर्थः । अत्र दिङ्नरूपणे दर्शितमतिप्रसङ्गं तद्वदेव परिहरति-
अन्यस्मिन्निति । शास्त्रोक्तं न लाघवतर्कबाध्यमित्यभिप्रायेणाह-
 
आनन्ददायिनी
 
भेदाभ्यां भेदः । पूर्वत्र तपनावृत्तेरतीतत्वाद्बुद्धिविषयतयेदानीन्तन-
परत्वादिजनकत्वं वाच्यम् । उत्तरत्र बुद्धे साक्षादेव सन्निधिरिति ध्येयम्।
ननु बुद्ध्यादीनामनेकेषां परत्वादिप्रयोजकत्वे गौरवम् ; यून्यपि बुद्धि-
विशेष संघटितोपाध्यादिभिः परत्वादेर्जननापत्त्या अतिप्रसङ्गश्चेत्याशङ्कय
अतिरिक्तकालकल्पनेऽपि प्रसङ्गस्समानः ; यूनि ( कालेन) सूर्यावर्त बाहुल्यो-
(ल्यस्यो) पनयसंभवात्। यदि दर्शनादिना कथञ्चित्परिहारः सोप्युपाधिपक्षे
समान इत्याह---यद्यतिप्रसङ्गेति । कालस्य पूर्वपक्षिणाभ्युपगमे कथं
कालताभ्युपगम इत्यत्राह -- कालतेति । आदिशब्देन क्षणलवादिव्यव...
हारनिर्वाहकत्वम् । नन्वाकाशादिविभुद्रव्यस्य स्थविरादौ सूर्यगत्युपनाय -
यत्वे अन्यधर्मोपनायकत्वाविशेषात् काशीस्थेन जपाया रक्तिन्ना सेतुस्थ-
(सेतुगत)स्फटिकोपरागप्रसङ्ग इत्यत्राह - अत्र दिङ्नरूपणे इति । दर्श-
नानुरोधेन व्यवस्थेति तत्रोक्तमनुसन्धेयम् । शास्त्रोक्तमिति -- कल्प्यत्व
एव लाघवतर्कावतार इति भावः । ननु कालस्वरूपस्य शास्त्रोक्तिमात्रादति-