This page has not been fully proofread.

614
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[
जडद्रव्य
 
तत्वमुक्ताकलापः
 
सूर्यावृत्त्याद्युपाधिव्यतिकरवशतः
 
सर्वार्थसिद्धिः
 
उद्दिष्टलक्षितेषु त्रिगुणानन्तरं कालः परीक्ष्यते । तत्र
'अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि '
इति परोक्तेरानुमानिकः काल इति मन्वानः सांख्यसौगतचार्वा -
कवञ्चितः कश्चित् कालं निह्नुते — सूर्येति । आदिशब्देन विभु-
द्रव्यान्तरं उपाधिबुद्धिविशेषाच संगृह्यन्ते । स्थविरय्वादिषु
परत्वापरत्वनिर्वाहाय तत्कारणभूतबुद्धिविशेष विषयसूर्यपरिस्पन्द-
प्रकर्षनिकर्षादिघटकतया कालः कल्प्यते ; तत्र संप्रतिपन्नैराका-
शादिभिरेव तत्तदुपाधिव्यतिकरितैः उपादिभिरेव वा बुद्धिसन्निकर्ष-
घटितैः तादृशोपाधिबुद्धिभिरेव वाऽपेक्षितसिद्धौ किमिह तद-
आनन्ददायिनी
 
अवसरसंगतिमाह – उद्दिष्टेति । प्राच्यमव्यक्तकालावित्यत्रेत्यर्थः ।
उद्दिष्टलक्षितेति स्नातानुलिप्तवत् पूर्वकालेति समासः । परत्वापरत्वा-
दिलिङ्गैः कालस्यानुमेयत्वं नैयायिकैरुक्तं दूषयितुमनुभाषते ---- तत्रापर-
स्मिन्निति । सांख्यादीनां कालतत्वं न वस्त्वन्तरम् ; किंतु क्लृप्तैरेवो-
पाधिभिस्तद्व्यवहार इति मतम् ; तदाह -- सांख्यति । विभुद्रव्यान्तर-
माकाशादि। उपाधिबुद्धिविशेषः–सूर्यावर्तादिगोचरबुद्धिविशेषः । क्लृप्तै-
रन्यथासिद्ध्या न कालोऽतिरिक्तः कल्प्य इत्यत्राह -- स्थविरयुवादि-
ष्विति । उपाधिभिरेवेति—– बुद्धिसन्निकर्षघटितैः बुद्धिविषयतया
सन्निकृष्टैरुपाधिभिर्वा । उपाधिबुद्धिभिर्वेति--विशेषणविशेष्यभाव-