This page has not been fully proofread.

610
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
तत्वमुक्का कलापः
 
[जडद्रव्य
 
मन्योन्यबाध्यम् विद्यास्थानं तु सर्वं प्रतिनियत-
 
निजोपक्रियांशे
 
सर्वार्थसिद्धिः
 
विद्यास्थानमिति । * येनयेनोपकारेण दश विद्यास्थानानि वेदै-
रुपजीव्यन्ते तत्रांशे विरोधाभावात् प्रामाण्यं प्रतिष्ठितमित्यर्थः ।
आनन्ददायिनी
 
येनयेनेति—ज्योतिश्शास्त्रं कालनिर्णायकत्वेनोपकरोतीति तत्र कृत्स्नं
प्रमाणम् ; पुराणादीनि तत्वांशादिनिर्णायकत्वेनेति तत्र प्रमाणम् ;
विरोधाभावादिति भावः । ननु विरोधस्थले कथं निर्वाह : ? इत्य-
 
-
 
भावप्रकाशः
 
.
 
2 * येन येनेति —– ज्यौतिषस्य वेदोक्तकर्मानुष्ठानापयुक्तकाल -
निर्णायकत्वेनोपकारकत्वम् ; यथोक्तं लगधेन—
 
वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः ।
'यस्मादतः कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान् ॥
 
इति । पुराणस्य तु —
 
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
 
(महा. आदि. १ अ)
 
इत्युक्तदिशा वेदापबृंहणनोपकारकत्वम् । यद्यपि नारदीयसंहितायाम्--
 
ब्रह्माचार्यो वसिष्ठोऽत्रिः मनुः पौलस्त्यलोमशौ ।
मरीचिरङ्गिरा व्यासो नारदश्शौनको भृगुः ॥
च्यवनो यवनो गर्गः कश्यपश्च पराशरः ।
अष्टादशैते गम्भीराः ज्योतिश्शास्त्रप्रवर्तकाः ॥