This page has not been fully proofread.

सर:]
 
पाताललोकादिविषये आपप्रक्रिया
 
607
 
भावप्रकाशः
 
इति । यथा वा युगलक्षणविषय तत्रैव-
यद्युगवधिर्महायुगमुक्तं श्रीषेण विष्णुचन्द्राद्यैः ।
तत् स्थूलं दृग्लिप्ता: महायुगादौ ग्रहेषु यतः ॥
 
कुदिनादौ स्मृतिपूक्तं ग्रहभोत्पत्तिः दिनक्षये प्रलयः ।
तान्यतिबहूनि यस्मान्महायुगेऽतोऽप्रसिद्धमिदम् ॥
 
इति । यथा वा उपरागविषये तेनैव-
 
(ब्रा. सि. मध्यमां ५६)
 
यदि राहुः प्राग्भागादिन्दुं छादयति किं तथा नार्कम् ? ।
स्थित्यर्धं महदिन्दोः यथा तथा किं न सूर्यस्य ? ।
किं प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे ।
ग्रासान्यत्वं न ततो राहुकृतं ग्रहणमर्केन्द्वोः ॥
एवं वराहमिहिरश्रीषेणार्यभटविष्णुचन्द्राद्यैः ।
लोकविरुद्धमभिहितं वेदस्मृतिसंहिताबाह्यम् ॥
यद्येवं ग्रहणफलं गर्गाद्यैस्संहितासु यदभिहितम् ।
तदभावे होमजपस्नानादीनां फलाभावः ॥
राहुकृतं ग्रहणद्वयमागोपालाङ्गनादिसिद्धमिदम् ।
बहुफलमिदमपि सिद्धं जपहोमस्नानफलमत्र ॥
स्मृतिषूक्तं न स्नानं राहोरन्यत्र दर्शनाद्रात्रौ ।
राहुग्रस्ते सूर्ये सर्वं गङ्गासमं तोयम् ॥
स्वर्भानुरारिरिनं तमसा विव्याध वेदवाक्यमिदम् ।
श्रुतिसंहितास्मृतीनां भवति यथैक्यं तदुक्तिरतः ॥
 
इति । वराहमिहिराचार्यैरपि ग्रहणविषये (बृहत्सं. राहुचार. १४-१५)
 
6
 
यदि मूर्तो भविचारी' इत्यादिना 'राहुरकारणम्' इत्यन्तेन