2025-01-21 07:49:18 by ambuda-bot
This page has not been fully proofread.
606
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ता कलापे
[ जडद्रव्य
भावप्रकाशः
यथा पातालावषये -----
इति ।
तदन्तरपुटास्सप्त नागासुरसमाश्रयाः ।
दिव्यौषधिरसोपेताः रम्याः पातालभूमयः ॥
(सूर्यसि. भूगोला. ३३)
भूगोलान्तः पुटे सप्त रम्याः पातालभूमयः ।
तत्र नागासुरास्सिद्धाः निवसन्ति द्विजोत्तम ॥
( वासिष्ठ स. १९९२)
इति च । अत्र श्रीविष्णुपुराणादौ पातालादौ सूर्यप्रभा वर्तते आतपस्तु
नास्तत्युिक्तम् । पातालदेशानां भूविवररूपतया तदुपपद्यते । 'न भानु-
करसंचारः' इत्यादिवासिष्ठ सिद्धान्तोक्तिरपि सूर्यस्याधिक प्रकाशाभावाभि-
प्राया । नागमण्यादिभिः प्रकाशोक्तिरपि सूर्यप्रकाशादप्यधिकप्रकाश-
सद्भावाभिप्राया । मेरुविषये तु दैवज्ञविलासे लक्ष्मणयज्वना --
तदिलावृतस्य मध्ये मेरुनगो वेद (८४) योजनोत्सेधः ।
इत्यादिना विष्णुपुराणोक्तचतुरशीतियोजनप्रमाणमनुसृत्य तत्र सहस्रांशा-
नादरेण योजनपरिमाणमुक्तम्
3
लोकानुपादिशद्भिरिति- महरादिलोकाः
ज्योतिष कैरप्युक्ताः ; यथा लघुवासिष्ठे-
स्वर्लोको मेरुरेव स्यात् खे महश्च ततो जनः ।
ततस्तपः ततस्सत्य उक्ता लोकाश्चतुर्दश ॥
इति । अयमेवार्थः महासिद्धान्तसिद्धान्तशिरोमणिदैवज्ञविलासादिषूप-
पादितः । शास्त्रान्तरविरुद्धकल्पना न युक्तेत्युक्तं ब्रह्मगुप्तेनापि । यथा
कृतादियुगचरणमानसाम्यविषये ----
युगपादान्यार्यभटश्चत्वारि समानि कृतयुगादीनि ।
यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि ॥
(ब्रां. सि. मध्यमां)